________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कायिकश्चमणनिमेषोन्मेषादौ । वाचिको देशनादौ । मानसो मनःपर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य सतो मनसैव देशनायाम् , ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनावधिज्ञानेन च पश्यन्ति, ततस्तद्वारेण पृष्टमर्थमवगच्छन्ति । सह योगेन वर्तत इति सयोगः सयोगीति वा, बहुव्रीहेर्मत्वर्थीय इति, यथा सर्वधनीत्यादौ सर्वधनादेराकृतिगणत्वात्, केवलमेकमसहायमसाधारणमनन्तमपरिशेषं च । तत्रैकं तदावे छानस्थैिकशेषज्ञानदर्शनाभावात् । उक्त च-"उष्पन्नंमि अणंते, नईमि यछाउमथिए नाणे' इति । असहायं न तु मंतिज्ञानबदिन्द्रियमनस्कृतसहायकापेक्षमर्थग्रहणे प्रवर्तते, परनिरपेक्षनिरावरणात्मस्वभावत्वात् । असाधारणमनन्यसहर्श, तदन्यस्यैवंविधज्ञानदर्शनाभावात् । अनन्तमपर्यवसानं, पुनस्वस्वरूपत्तिरस्करणकारणघातिकमोऽत्यन्तक्षयोद्तखात् द्रव्याद्यनन्तज्ञेयग्रहणात्मकत्वाहा अनन्तम् । अपरिशेषं संपूर्ण, संभिशापरिषद्रव्यक्षेत्रकालभावलक्षणवस्तुग्रहणस्वरूपत्वात् । तच्च शिविध, ज्ञानं दर्शनं चेति । तत्के वलं यस्खास्तीति स केवली, सयोगी चासो केवली चेति सयोगिकेवली तस्य गुणस्थानं तथैव १३॥ नास्ति यथोत्रो योगो निरुद्धत्वादस्पेस्ययोगः अयोगीति का पूर्ववदिति । स त्रिविधोऽपि योगः प्रत्येक द्विविधः, सूक्ष्मो बादरश्च । तत्र केवलोत्पत्तेरुत्तरकालं जघन्येनान्तर्मुहूर्तयुत्कर्षेण देशोनपूर्वकोटी विहत्यान्तर्मुहूर्तावशेषायुष्का सयोगिकेवली प्रथम बादरकाययोगेन बादरवाङमनोयोगी निरुणद्धि । सतः सूक्ष्मकाययोगेच बावरं काययोगं निरुणद्धि, सति तस्मिन् सूक्ष्मयोगस्य निरोडुमशात्वात् । ततश्च सर्वबादरबोगनिरोधानम्तरं सूक्ष्मक्रियमनिवर्तिशुक्लध्यानं ध्यायन सूक्ष्मकायबोगेन सूक्ष्मया
१ तदुक्तम्" इत्यपि पाठः ॥
For Private And Personal Use Only