SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir तच्च दर्शयिष्यामः । तत्र तीर्थकरनाम्न आहारकद्वयस्य च मिथ्यादृष्टेबन्धो नास्ति, तद्वन्धस्य यथासवं सम्यक्त्वसंयमप्रत्ययत्वात् । उक्तं च-"सम्मत्तगुणनिमित्तं, तित्थयरं संजमेण आहारं" इति । शेषस्य सप्तदशोत्तरस्य कर्मप्रकृतिशतस्य मिथ्यादृष्टेबन्ध इति । 'पणुवीस सासणे' इति, पञ्चविंशतिः कर्मप्रकृतयः सासादनसम्यग्दृष्टिगुणस्थाने बन्धं प्रतीत्य व्यवच्छिन्नाः । इह तु मिथ्यादृष्टिपोडशके सप्तदशोत्तरशतादपनीते शेषस्यैकोत्तरशतस्य बन्धः । तीर्थकरनामस्तु सत्यपि तत्व त्यये सम्यक्त्वेनास्तीह बन्धः, तस्य हि बन्धारम्भः शुद्धसम्यग्दृष्टेरेव भवति । तत्सत्कर्मा च सासादनत्वं न प्रामोति.। सम्यग्मिथ्यादृष्टिगुणस्थाने तु देवमनुष्यायुषोरपि बन्धो नास्ति, आयुर्वन्धाध्यवसायस्थानविरहाद । अतस्तत्सहितायां सासांदनव्यवच्छिन्नपञ्चविंशतावेकोत्तरशतादपनीतायां शेक्चतुःसप्ततेर्बन्धः । 'अविरए य दस पयडी' इति, अविरतसम्यग्दृष्टिगुणस्थाने दश प्रकृतयो बन्धं प्रतीत्य व्यवच्छिन्नाः। पूर्वोक्तायां चतुःसप्ततौ देवमनुष्यायुष्कतीर्थकरनामसु प्रक्षिप्तेषु सप्तसप्ततेवन्धः। 'चउ छक्कमेगदेसे, विरए य कमेण वोच्छिन्ना' इति, चतस्रः षटुं एकंदेशे इति देशषिरतगुणस्थाने, विरते चेति घिरतो द्विविधः, प्रमत्तोऽप्रमत्तश्च तस्मिन्निति । किमुक्तं भवति ? देशविरतगुणस्थाने चतनः प्रमत्तसंयतगुणस्थाने षट्वं अप्रमत्तसंयतगुणस्थाने त्वेका कर्मप्रकृतिः क्रमेण यथासंख्यं व्यूवच्छिन्नाः । तत्र देशविरतगुणस्थाने दशसु प्रकृतिषु || अविरतसम्यग्दृष्टिव्यवच्छिन्नासु सप्तसप्ततेरपनीतासु शेषायाः सप्तषष्टेबन्धः । प्रमत्तंसंयतगुणस्थाने तु देशविरतव्यवच्छि-४ नासु चतसृषु प्रकृतिषु सप्तषष्टेरपनीतासु शेषायास्त्रिषष्टेबन्धः । अप्रमत्तसंयवगुणस्थाने तु प्रमत्तसंयतव्यवच्छिन्नासु षट्सु प्रकृतिषु विषष्टेरपनीतासु शेषायां सप्तपञ्चाशति द्वयोराहारकशरीराहारकाङ्गोपाङ्गयोः प्रक्षिप्तयोरेकोनषष्टेबन्धः। For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy