________________
Shri Mahavir Jain Aradhana Kendra
क० १३
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| केवलस्यानुत्पादात्तदपगमानन्तरं चोत्पादाच्छद्मनि तिष्ठतीति छद्मस्थः, स च सरागोऽपि भवतीत्यतस्तद्व्यवच्छेदार्थे वीतरागग्रहणम् । वीतो विगतो रागो, मायालोभकषायोदयरूपो यस्य स वीतरागः, स चासौ छद्मस्थश्च वीतरागच्छ - अस्थः । स च क्षीणकषायोऽपि भवति, तस्यापि यथोक्तरागापगमादतस्तद्व्यवच्छेदार्थमुपशान्तकषायग्रहणम् । कषऋष| शिषेत्यादिदण्डक धातु हिंसार्थः । कषन्ति कथ्यन्ते च परस्परमस्मिन् प्राणिन इति कपः संसारः । 'पुंसि संज्ञायां घः प्रायेण' ( पा०० ३-३-१८ ) इति घः प्रायग्रहणात्, अन्यथा हि हलन्तत्वात् 'हलश्च' (पा० ३-३-१२१ ) इति घञ् स्यात् । कष| मयन्ते गच्छन्ति एभिर्जन्तव इति कषायाः क्रोधादयः । उपशान्ता उपशमिता विद्यमाना एव सङ्क्रमणोद्वर्तनापवर्तनादिकरणोदयायोग्यत्वेन व्यवस्थापिताः कषाया येन स उपशान्तकषायः, स चासौ वीतरागच्छद्मस्थश्चेत्युपशान्तकषायवीतरागच्छद्मस्थः तस्य गुणस्थानमिति प्राग्वत् । तत्राविरतसम्यग्दृष्टेः प्रभृत्यनन्तानुबन्धिनः कषाया उपशान्ताः संभवन्ति । उपशमश्रेण्यारम्भे ह्यनन्तानुबन्धिकपायानविरतो देशविरतः प्रमत्तोऽप्रमत्तो वा सन् उपशमय्य दर्शनमोहत्रितयमुपशमयति । तदुपशमानन्तरं प्रमत्ताप्रमत्त गुणस्थान परिवृत्तिशतानि कृत्वा ततोऽपूर्वकरण गुणस्थानोत्तरकालमनिवृत्तिवादरस|म्परायगुणस्थाने चारित्रमोहनीयस्य प्रथमं नपुंसकवेदमुपशमयति, ततः स्त्रीवेदम्, ततो हास्यरत्यरतिशोकभय जुगुप्सारूपं युगपत् षङ्कम् ६, ततः पुरुषवेदम्, ततो युगपदप्रत्याख्यानावरणप्रत्याख्यानावरणौ क्रोधौ, ततः संज्वलनक्रोधम्, ततो युगपद्वितीयतृतीयो मानौ, ततः संज्वलनमानम्, ततो युगपद्वितीयतृतीये माये, ततः संज्वलनमायाम्, ततो युगपद्वितीयतृतीयौ लोभौ ततः सूक्ष्मसम्परायगुणस्थाने संज्वलन लोभमुपशमयतीति । तदेवमन्येष्वपि गुणस्थानेषु कापि
For Private And Personal Use Only