________________
Shri Mahavir Jain Aradhana Kendra
कर्मस्तवः
॥ ७२ ॥
स्थापना-
णविशुद्धम्,
प्रथम समय जघन्यात्प्रथमसमयोत्कृष्टमनन्तगुणविशुद्धम्, तस्माद्वितीय समयजघन्यमनन्तगुतस्मात्तदुत्कृष्टमनन्तगुणेन विशुद्धमिति । एवं यावद्विचरमसमयोत्कृष्टाच्चरमसमयजघन्यविशुद्धम्, तस्मात्तदुत्कृष्टमनन्तगुणविशुद्धमिति । एकसमयगतानि तु परस्परं षट्स्थानयुगपदेतद्गुणस्थानप्रविष्धानां बहूनां जीवानामन्योऽन्यस्य संबन्धिनोऽध्यवसायस्थानस्यास्ति निवृत्तिरपी ति निवृत्तिगुणस्थानमपीदमुच्यते ८ ॥ युगपदेकं गुणस्थानं प्रतिपन्नानां बहूनां जीवानामन्योऽन्यस्य संबन्धिनोऽध्यवसायस्थानस्य व्यावृत्तिरिह निवृत्तिरभिप्रेता, नास्ति तथाविधा निवृत्तिरस्येत्यनिवृत्तिः, अन्येषां यदध्यवसायस्थानमसावपि तद्वर्त्तीत्यर्थः । सम्परायः कषायोदयः, समन्तात्परैति पर्यटति संसारमनेनेतिकृत्वा । बादरः स्थूलः सम्परायो यस्य स बादरसम्परायः, सूक्ष्मकिट्टीकृत सम्परायापेक्षया बादरत्वम् । अनिवृत्तिश्चासौ बादरसम्प|रायश्चेत्यनिवृत्तिबादरसम्परायः । स च द्विविधः, क्षपकः उपशमको वा, क्षपयति उपशमयति वा मोहनीयादिकर्मेतिकृत्वा, तस्य गुणस्थानं अनिवृत्तिवादरसम्पराय गुणस्थानम् । अनिवृत्तिवादरसम्परायाद्धायामान्तमौहूर्तिक्यां प्रथमसमयां| दारभ्य प्रतिसमयमेकैकमनन्तगुणविशुद्धं यथोत्तरमध्यवसायस्थानम्, तेन तत्रैकसमयप्रविष्टानामेकमध्यवसायस्थानम नुवर्तते, परस्परं न तु निवर्तत इत्यनिवृत्तित्वम् ९ ॥ सूक्ष्मः सम्परायः किट्टीकृतलोभकषायोदयरूपो यस्य सोऽयं सूक्ष्मसम्परायः । सोऽपि द्विविधः, क्षपकः उपशमको वा । क्षपयत्युपशमयति वा लोभमेकमितिकृत्वा तस्य गुणस्थानम् १० ॥ छाद्यते केवलज्ञानदर्शनमात्मनोऽनेनेति च्छद्म ज्ञानावरणदर्शनावरणान्तराय मोहनीयकर्मोदयः, सुति तस्मिन्
मनन्तगुणपतितानीति ।
५०००००
www.kobatirth.org
9000
ज० म० उ०
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
टीकोपेतः ।
॥ ४ ॥