SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णादेतद्गुणानां विशुद्धिप्रकर्षोऽशुद्ध्यपकर्षश्च, अप्रमत्तसंयतगुणापेक्षया तु विपर्यय इति । एवमन्यगुणस्थानेष्वाप गुणस्थानयोजना द्रष्टया पूर्वोत्तरापेक्षया विशुद्ध्यविशुद्धिप्रकर्षापकर्षकृतेति ६ ॥ नास्ति प्रमत्तमस्येति अप्रमत्तो विकथादिप्र| मादरहितः । अप्रमत्तश्चासौ संयतश्चेत्यप्रमत्तसंयतस्तस्य गुणस्थानाम् ७ ॥ अपूर्व करणं स्थितिघातरसघातगुणश्रेणिगुणसङ्क्रमस्थितिबन्धानां पञ्चानामर्थानां निर्वर्तनमस्यासावपूर्वकरणः, तथाहि - यावत्प्रमाणमसौ पूर्वगुणस्थानविशुद्धया स्थिति| खण्डकं रसखण्डकं वा हतवान् ततो बृहत्तरप्रमाणमपूर्वमस्मिन् गुणस्थाने हन्ति । उपरितनस्थितेर्विशुद्धिवशादपवर्त - नाकरणेनावतारितस्य दलिकस्यान्तर्मुहूर्तप्रमाणमुदयक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणमसंख्येयगुणवृद्ध्या विश्चनं गुणश्रेणिरित्युच्यते । स्थापना । एतां च पूर्वगुणस्थानेष्वविशुद्धतरत्वात् कालतो द्राघीयसीमप्रथीयसीं च दलिकस्याल्पतरस्यापवर्तनाद्विरचितवान् । इह तु विशुद्धतरत्वादपूर्वी कालतो ह्रस्वतरां पृथुतरां च बहुतरदलिकापवर्तनाद्विरचयति । स्थापना । शुभप्रकृतिष्वशुभप्रकृतिदलिकस्य प्रतिक्षणमसंख्येयगुणवृद्ध्या विशुद्धिवशान्नयनं गुणसङ्क्रमः, तमिहासावपूर्व करोति । स्थितिं च कर्मणां द्राघीयसीं प्राग्बद्धवान् इह तु तामपूर्वी इसीयसीं बनाति विशुद्धतरत्वादिति । पश्चाप्यपूर्वाणि करणान्यस्य । स च द्विधा, क्षपक उपशमको वा । क्षपणोपशमनार्हत्वात्, राज्यार्हकुमारराजवत्, न पुनरसौ क्षपयत्युपशमयति वा, तस्य गुणस्थानं अपूर्वकरणगुणस्थानम् । अपूर्व करणाद्धायाश्चान्तर्मौहूर्तिक्याः प्रथमसमये जघन्यादीन्युत्कृष्टान्तान्यध्यव| सायस्थानानि असंख्येयलोकाकाशप्रदेशमात्राणि । द्वितीयसमये तदन्यान्यधिकरतराणि । तृतीयसमये तदन्यान्यधिकत| राणि । चतुर्थसमये तदन्यान्यधिकतराणीत्येवं यावच्चरमसमय इति । तानि च स्थापनायां विषमचतुरस्रं क्षेत्रमास्तृणन्ति । For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy