________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मस्तवः
टीकोपेतः।
१७१॥
sन
मिथ्यात्वं वा गच्छतीति ३॥ तथा विरतिर्विरतं, 'नपुंसके भावे कः' इति का, तत्पुनः सावद्ययोगप्रत्याख्यानं, तन्न जानाति नाभ्युपगच्छति न तत्पालनाय यतत इति त्रयाणां पदानामष्टौ भङ्गाः। तज्ज्ञापनाय स्थापना-न ना न तत्र प्रथमेषु चतुर्यु भङ्गेषु मिथ्यादृष्टिरज्ञानित्वाल्लभ्यते । शेषेषु त्रिषु सम्यग्दृष्टिः, तस्य हि ज्ञानमेव भवतीति
न ना पा सप्तसु भङ्गेषु नास्य विरतमस्तीत्यविरतो भवति । चरमभङ्गे तु विरतिरस्तीति । अविरतश्चासौ सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टिः तस्य गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् । सम्यग्दृष्टित्वं पुनरौपशमिकसम्यक्त्वे वाण
जाना पा तान्तरकरणकालसंभवे विशुद्धदर्शनमोहपुञ्जकोदयकालसंभवे वा क्षायोपशमिकसम्यक्त्वे सर्वदर्शनमोहक्षयसं-| भवे वा क्षायिकसम्यक्त्वे सति भवति, विरतः पुनरप्रत्याख्यानावरणकषायोदयवशान भवति । ते ह्यल्प- जा ऽ पा मपि प्रत्याख्यानमावृण्वन्तीति नमोऽल्पार्थत्वादप्रत्याख्यानावरणा उच्यन्ते इति ४ ॥ एकत्रतविषयस्थूलसावद्ययोगादौ सर्व व्रतविषयानुमतिवर्जसावद्ययोगान्ते करणत्रययोगत्रयविषयसर्वसावधयोगस्य देशे विरतमस्यास्तीति देशविरतः । सर्वसावद्ययोगप्रत्याख्यानरूपं तु विरतमस्य नास्ति, प्रत्याख्यानावरणकषायोदयात् । सर्वविरतिरूपं हि प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा उच्यन्त इति ५॥ संयच्छति स्म सम्यगुपरमति स्म यावज्जीवं सर्वसावधयोगादिति संयतः "कर्तरि निष्ठा गत्यकर्मका" इत्यादिसूत्रेण, प्रमदनं प्रमत्तं प्रमादा, स च विकथाकषायमद्यविकटेन्द्रियनिद्रारूपाणां | पश्चानामन्यतमः प्रमत्तमस्यास्तीति अर्शआदित्वाद् अचः मत्वर्थीयस्योपादानात् प्रमत्तः प्रमादवानित्यर्थः, स चासी संयतश्चेति प्रमत्तसंयतस्तस्य संबन्धिनां गुणानां स्थानं विशुद्ध्यविशुद्धिप्रकर्षापकर्षकृतः स्वरूपविशेषः। तथाहि-देशविरतगु
For Private And Personal Use Only