SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CASSACRACC नप्रणीतवस्तुमतिपत्तिर्यस्य स सम्यग्दृष्टिः । सासादनश्चासौ सम्यग्दृष्टिश्चेति सासादनसम्यग्दृष्टिः, तस्य गुणस्थान सासादनसम्यग्दृष्टिगुणस्थानमिति । एतच्चैवं भवति-गम्भीरभवोदधिमध्यविपरिवत्ती जन्तुरनाभोगनिवर्तितेन गिरिसरितुपलघो लनाकल्पेन यथाप्रवृत्तिकरणेन संपादितान्तःसागरोपमकोटाकोटीस्थितिकस्य मिथ्यात्ववेदनीयस्य कर्मणः स्थितेरम्तर्मुहूर्त६ मुदयक्षणादुपयेतिक्रम्यापूर्वकरणानिवृत्तिकरणसंज्ञिताभ्यां विशुद्धिविशेषाभ्यामन्तर्मुहूर्तकालप्रमाणमन्तरकरणं करोति । तस्मिन् कृते तस्य कर्मणः स्थितिद्वयं भवति, अन्तरकरणादधस्तनी प्रथमस्थितिरन्तमुहूर्तमात्रा, तस्मादेवोपरितनी शेषा द्वितीयस्थितिरिति । स्थापनेयम्-तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिः। अन्तर्मुहुर्तेन तु तस्यामपगतायामन्तरकरणप्रथयसमय एवौपशमिक सम्यक्त्वमामोति मिथ्यात्वदलिकवेदनाभावात् , यथा हि वनदवानल: पूर्वदग्धेन्धनमूपरं वा देशमवाप्य विध्यायति, तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्यविध्यायति । तस्यामान्तमौहूर्तिक्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां जघन्येन समयशेषायामुत्कर्षेण षडावलिकाशेषायां कस्वचिदनन्तानुबन्ध्युदयो भवति । तदुदये चासौ सासादनसम्यग्दृष्टिगुणस्थाने वर्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित्सासादनत्वं याति । तदुत्तरकालमवश्यं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवतीति २॥ सम्यकमिथ्या च दृष्टिर्यस्य स सम्यम्मिथ्याष्टिः तस्य गुणस्थानं सम्यग्मिथ्याष्टिगुणस्थानम् । वर्णितविधिना लब्धं सम्यक्त्वमौषधविशेषकल्पमासाद्य मदनकोब्रवस्थानीयं दर्शनमोहनीयं अशुद्धं कर्म त्रिधा करोति, अशुद्ध १ अर्द्धविशुद्धं २ विशुद्धं ३ चेति । स्थापना- / .त्रयाणां चितेषां पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति तदा तदुदयवशादःविशुद्धमहें/ श्रद्धानं भवति जीवस्य, तेन तदाऽसौ सम्यग्मिथ्यादृष्टिगुणस्थानमन्तर्मुहूर्त कालं स्पृशति, तत ऊर्वमवश्यं सम्यक्त्वं ।। वि दृष्टतत्त्व For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy