________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मस्तव
OSTEOSAG
करणगुणस्थानम ८, अनिवृत्तिबादरसम्परायगुणस्थानम् ९, सूक्ष्मसम्परायगुणस्थानम् १०, उपशान्तकषायवीतरागच्छ- मस्थगुणस्थानम् ११, क्षीणकषायवीतरागच्छद्मस्थगुणस्थानम् १२, सयोगिकेवलिगुणस्थानम् १३, अयोगिकेवलिगुणस्थानं १४ चेति । तत्र गुणाः ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, स्थानं पुनरत्र तेषां शुयशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः, तिष्ठन्त्यस्मिन् गुणा इतिकृत्वा यथाऽध्यवसायस्थानमिति, गुणानां स्थानं गुणस्थानम् ॥ मिथ्या विपर्यस्ता दृष्टिरहत्प्रणीतवस्तुप्रतिपत्तिर्यस्य भक्षितहत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् स मिथ्यादृष्टिस्तस्य गुणस्थानं ज्ञानादिगुणा-12 नामविशुद्धिप्रकर्षविशुद्ध्यपकर्षकृतः स्वरूपविशेषो मिथ्यादृष्टिगुणस्थानम् । ननु च दृष्टौ विपर्यस्तायां तदाधारस्वाद् गुणानामभाव एव स्यात् , तदभावे च कुतस्तत्स्वरूपविशेषात्मकं मिथ्यादृष्टेर्गुणस्थानम् ?, इत्यत्रोच्यते यद्यपि मिथ्यात्वमोहनीयोदयाद् दृष्टिविपर्यासस्तथाऽपि नैकान्तनास्य निर्गुणत्वं, अजीवत्वप्रसङ्गात् । तथा चार्षम्-"सधजीवाणं पिय गं अक्खरस्स अणंतभागो निच्चुग्घाडिओ। जइ पुण सोवि आवरेजेजा तेणं जीवो अजीवत्तं पावेज्जा । सुडवि मेहसमुदए होइ पहा चंदसूराणं" इत्यस्ति, तस्यापि या च यावती च गुणमात्रा दृष्टिविपर्यासेन तु साऽपि विपर्यस्तस्वरूपैवेति । जिनप्रणीतं चैकमप्यक्षरमश्रधानो मिथ्यादृष्टिर्भवतीति । उक्तं च-"सूत्रोक्तस्यैकस्या-प्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं, हि नः प्रमाणं जिनाभिहितम् ॥१॥" इति १॥आग्रं सादयतीति आसादनं, अनन्तानुबन्धिकषायवेदनम्, नैरुक्तो यशब्दलोपःसति हि तस्मिन्ननन्तसुखफलदनिःश्रेयसतरुबीजभूत औपशमिकसम्यक्त्वलाभो जघन्यतः समयेन उत्कृष्टतः पडिरावलिकाभिः सीदत्यपगच्छति । सहासादनेन वर्तत इति सासादनः । सम्यगविपर्यस्ता दृष्टिर्जि
ASS ****
For Private And Personal Use Only