________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RSS RSSBISHANAS
प्यत्वेऽपि प्राप्ते ललितललनाद्युपभोग्यतासंबन्धनिबन्धने लब्धेऽप्युभोगसाधने अमररमणीरामणीयकहठहरणप्रवीणपण्य. तरुणीवशीकरणकार्मणसन्निभे विभवे ब्रह्मचर्यादिविशिष्ट्परिणामापरिगतोऽपि कदर्यत्वासामर्थ्यादिकारणवशादुपभोक्तुं न शक्रोति तदुपभोगान्तराबमिति भावः । भोगोपभोगयोरेतयोः केवलं विशेषः 'एप' वक्ष्यमाणलक्षणो भवति । इति गाथाद्वयार्थः ॥१६४॥ प्रतिज्ञातमाहसहभुजइत्ति भोगो, सो पुण आहारपुष्फमाईओ। उक्भोगोय पुणो पुण,उवभुजइ भवणविलयाई १६५ | "व्याख्या-'सकृद' एकपैक वारया विवक्षितं वस्तु भुज्यते, एका वा बारां भुज्यत इति भोगः। स पुनः क इलाह-आहारश्चतुर्विधोऽशनपानखादिमखादिमरूपः, पुष्पाण्यादौ यस्याहारादेः स आहारपुष्पादि म्यं वस्तूच्यते, आदिशब्दाविलेपनादिपरिग्रहः। उपभोगस्तु पुनः पुनर्भुज्यते, उप सामीप्येन वाल भुज्यते उपभोगः। स च कः? इत्याह-भवनविलयादिः' भवनं धवलगृहादि, विलबादि कलत्रादि, आदिशब्दादाभरणादिपरिग्रहः । इति गाथार्थः ॥ १६५ ॥
अभिहितं भोगोपभोगान्तरायम् । साम्पतं वीर्यान्तरायमाह(पारमा०) 'सकृद्' एकवारं भुज्यत इति भोगः, स पुनराहारपुष्पादिकः । उपभोगश्च पुनः पुनरुपभुज्यते 'भवनवदनितादिकः' गृहगृहिणीप्रभृतिकः । इति गाथार्थः ॥ १६५ ॥
उक्त भोगोपभोगयोरन्तरायं सकृत्पीनःपुन्यासेवनलक्षणो विशेषश्च । अधुना वीर्यान्तरायमाह
USISAK BESTEK
For Private And Personal Use Only