SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13॥ ESCORREGA प्रस्तुतकर्मग्रन्थतट्टीकानां तत्कर्तृणां च संक्षिप्तः परिचयःश्रीगर्षिप्रणीतः कर्मविपाकनामा श्रीपरमानन्दसूरिकृतया अज्ञातनामधेयपूर्वाचार्यकृतया च सरलया नातिविस्तृतया टीकया सङ्कलितः प्रथमः कर्मग्रन्थः, स च मूलोत्तरकर्मप्रकृतिलक्षणादीनां मूलभूतगाथाभिरेव प्रतिपादकत्वाद् विस्तृतोऽप्यवश्यदर्शनीयो जिज्ञासुमिः। द्वितीयतृतीयकर्मग्रन्थयोः प्रणेतृणां नाम नोपलभ्यते । कर्मस्तवनामकद्वितीयकर्मग्रन्थटीका श्रीमद्गोविन्दाचार्यैर्बन्धस्वामित्वनामकतृतीयकर्मग्रन्थटीका च बृहद्च्छीयैः श्रीहरिभद्रसूरिभिनिर्मिताऽस्ति । श्रीजिनवल्लभगणिगुम्फितः षडशीतिनामा श्रीमद्भिर्मलयगिरिसूरिभिबृंहद्दच्छीयैः श्रीहरिभद्रसूरिभिश्च रचितया सुन्दरया टीकया समलङ्कतश्चतुर्थः कर्मग्रन्थोऽस्ति । मूलटीकादिग्रन्थविधायकानां तत्तदाचार्याणां समय उपरिष्टाद्दर्शितकोष्ठकादेव सुज्ञान इति न पुनर्लिख्यते । इमे कर्मग्रन्था यद्यपि प्राचीनास्तथापि ततोऽपि प्राचीना अभूवन्निति श्रीशिवशर्मसूरिप्रणीतशतकप्रकरणरूपपञ्चमकर्मग्रन्थोपलब्धेरनुमीयते । ___एतद्वन्थानां संशोधनकर्मणि षड्विंशतिः पुस्तकान्युपयोगीन्यभूवन् । तत्राष्टौ ताडपत्रमयाणि त्रयोदश्यां चतुर्दश्यां च शताब्दयां लिखितानि शेषाणि पत्रमयाणि सर्वाण्यपि पञ्चदशशताब्दयाः पुरस्ताल्लिखितानि सन्ति । एषु च चत्वारि श्रीमद्वीरविजयोपाध्यायसत्कानि चत्वारि च प्रवर्तकश्रीमत्कान्तिविजयसत्कानि द्वे पुनः श्रीमद्वीरविजयपन्याससत्के एकं तु पंन्यासश्रीमदानन्दसागरसत्कं एकं च मुनिश्रीभक्तिविजयसत्कं शेषाणि सर्वाण्यप्यणहिलपुरपत्तनीयपुस्तकभाण्डागारगतानि । तत्र ताडपत्रमयाण्यष्टावपि सङ्घवीपाटकचित्कोशगतानि सन्ति । [यैरुदाराशयैः पुस्तकसमर्पणेन साहायकमकारि न तेषामुपकृतिः स्मृतिपथादपनेष्यते । एतत्पवित्रपुस्तकमुद्रणे प्रवर्तकश्रीमत्कान्तिविजयपूज्यशिष्यश्रीमच्चतुरविजयोपदेशेन द्रव्यसाहाय्यं कृतवतोरणहिल्लपुरपत्तनवास्त For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy