________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मग्रन्थ
प्रस्तावना.
व्ययोः सर्वेष्वपि धर्मकर्मसु पुष्कलधनव्ययेन हृदयौदार्य दर्शयतोर्दम्पत्योधर्मशील-मोतीकुंवर-श्रीमालीज्ञातीयश्रेष्ठिझवेरचन्द्रात्मज-प्रेम
चन्द्रसुश्रावकयोरियमपि प्राचीनपुस्तकोद्धारसहायता प्रशंसात्यस्माभिरपि वक्तव्यमेव । | एतेषां पुस्तकानां संशोधनं भूयसा प्रयासेन कृतवतः प्रवर्तकश्रीमत्कान्तिविजयमुनिशिष्यश्रीमच्चतुरविजयमुनीनिय सभा उपकृतिस्वीकृतिपुरस्सरं बहुमन्यते । यद्यपि पुस्तकोद्धारकरणनिहितचेतोभिः श्रीमद्भिर्मुनिचतुरविजयैः सावधानीभूय संशोधनं व्यधायि तथाप्यनिवार्यस्खलनदोषवशेनाक्षरयोजकदोषवशेन चावशिष्टाखुटीयदि वाचकमहाशयाः सकृपं सूचयिष्यन्ति तदा कदाचित्संभाव्यमानद्वितीयावर्तने ता अपाकरिष्यन्ते इत्याशास्तेविक्रमसंवत् १९७२ प्रमिते वर्षे
भावनगरस्था श्रीजैन-आत्मानन्द-सभा। ज्येष्ठकृष्णषष्ठीदिनेऽलेखीयं प्रस्तावना ।
C5545%ECE%E5%
For Private And Personal Use Only