________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मग्रन्थ
%EC%A7%
मूलतत्त्वादिविषयक्रमिकज्ञानसंपादनाय षटूर्मग्रन्थी अवश्यपर्यालोचनीया । यद्यपि साम्प्रतं प्राचीनषष्ठकर्मग्रन्थसहिताः श्रीमद्देवेन्द्रसूरि- प्रस्तावना प्रणीताः कर्मग्रन्थाः पठनपाठनपद्धतिमाश्रिताः, किन्तु ते संक्षिप्तत्वात्तदभ्यासीनां मूलविस्तृतप्राचीनकर्मग्रन्थविषयां जिज्ञासां जनयेयुरित्ये|तन्नैसर्गिकम् । अस्माभिरपि सत्सु साधनेषु तज्जिज्ञासापरिपूरणे उदासीतव्यमित्यन्याय्यम् । श्रीदेवेन्द्रसूरिप्रणीतसटीककर्मविपाकावलोकनसंभवि ज्ञानं मूलोत्तरकर्मप्रकृतिसमस्तलक्षणप्रतिपादकत्वादतिविस्तृतश्रीगगेषिप्रणीतमूलमात्रकर्मविपाकमवलोक्य शक्यसंपादनं, समानविषयाखपि भिन्नकर्तृकासु च टीकासु किञ्चिन्नव्यं सुपापमेव, कर्मप्रकृतिपञ्चसङ्ग्रहीयविशालक्रमिकसङ्गतमहत्तरटीकारचयितृभिः प्राञ्जललेखपटिष्ठतया | विश्रुतिपथमायावैः श्रीमलयगिरिसूरिभिरपरैश्च बृहद्गच्छीयश्रीहरिभद्रसूरिभिर्विरचितया टीकया समाकलितत्वेन श्रीजिनवल्लभगणिकृतप्रस्तुतचतुर्थकर्मग्रन्थस्यातिस्पृहणीयतोपादेयता च मुद्रणमन्तरा तमोनिहितमहामूल्यरलायत इत्येतदसह्यं सहृदयानाम् । कर्मतत्त्वं जिज्ञासवः श्रीदेवेन्द्रसूरिमणीतान् मुद्रितानपि कर्मग्रन्थान् समासतया प्रयत्नेनापि नासादयितुमीशते, तेषां च प्राचीनाप्राप्तपूर्वानेकटीकाकलितकर्मग्रन्थ. चतुष्टयमनायासलभ्यं स्यात, तथायलोऽप्युदारमनसां कासणीय एव । प्राचीनग्रन्थोद्धारोऽपि मुद्रणाविनाभावी । इत्येतैः सकलैः कारणैः प्राचीनान् सटीकान् कर्मग्रन्थान् मुद्रयितुं वयमवधारितवन्तः । अद्य पुनर्ययानिश्चयं तान् ग्रन्थान् प्रकाश्य जिज्ञासुकरकमलयोरुपहउँ प्राप्ताव-है। सरत्वात्खं कृतकृत्यं मन्यामहे ।
द्विद्विटीकोपेतौ प्रथमचतुर्थी एकैकटीकोपेतौ च द्वितीयतृतीयौ कर्मग्रन्थौ प्रकाश्येते । सटीकप्राचीनपञ्चमकर्मग्रन्थप्रकाशनमभिलषितमपि चिरायते ततस्तत्प्रकाशनात्मागेव प्रस्तुतकर्मग्रन्थचतुष्टयप्राप्तिः सर्वैरपि जिज्ञासुभिरादरिष्यतेतराम् ।
EXPERSONSI-BASAHRIST
AA%E%
For Private And Personal Use Only