SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मविपाकः ॥ ६४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्प्रति पञ्चप्रकारत्वमाह तं दाणलाभभोगो-वभोगविरियंतराय पंचमयं । एएसिं तु विवागं, वोच्छामि अहाणुपुवीए ॥ १५९ ॥ व्याख्या—तद् दानं च लाभश्च भोगश्च उपभोगश्च वीर्य चेति द्वन्द्वः, एतेषामन्तरायं विघ्नः, लुप्तानुस्खारमन्तरायपदं प्राकृतत्वात्, 'पश्चमयं' पश्चभेदः । दानं त्रिविधम्, ज्ञानदानम्, अभयदानम्, धर्मोपग्रहदानम् । लाभोऽनेकप्रकारः, दायकादादेयप्राप्तिः । भुज्यत इति भोग आहारपुष्पादिः, उप सामीप्येन पुनः पुनर्वा भुज्यते उपभोगः । वीर्यमान्तरः शक्तिविशेषः । अन्तरायशब्दो विघातकः, स च प्रत्येकं संबध्यते । एतेषां पुनः 'विषांक' अनुभवं 'पोच्छामि' वक्ष्ये 'यथाऽऽनुपूर्व्या' यथापरिपाट्या । इति गाथार्थः ॥ १५९ ॥ दानान्तरायस्य विषयमाह - ( पारमा० ) 'तत्' अन्तरायं दानलाभभोगोपभोगवीर्यान्तरायाः पञ्च प्रकृता अस्मिन् दानलाभभोगोपभोगवीर्यान्तरायपश्चमयम् । एतेषां तु दानादीनां विपाकं भणामि 'यथानुपूर्व्या' आनुपूर्व्यनतिक्रमेण । इति गाथार्थः ॥ १५९ ॥ तत्र दानान्तरायमाह - सइ फासयंमि दाणे, दाणफलं तह य बुज्झई अडलं । बंभच्चेराइजुयं, पत्तंपि य विज्जए तैत्थ ॥ १६० ॥ १ " भणामि य" इति पाठानुसारेण परमानन्दसूरिभिर्व्याख्यातम् ॥ २ व्याख्याकारेण "इत्थ" इति पाठानुसारेण व्याख्यातमस्ति || For Private And Personal Use Only टीकाद्वयोपेतः ॥ ॥ ६४ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy