________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
129
GARA YASHASHASHGANGKA
तेन तु प्रतिकूलेन तेन पुनर्विबन्धकेन निषेधकेन 'न करोत्येव न वितरत्येव 'स' राजा दानादि तु, आदिशन्दागोगोपभोगादिपरिग्रहः । तुशब्दस्यैवकारार्थत्वात् । इति गाथार्थः॥१५७॥
अभिहितो दृष्टान्तः, अधुना दार्शन्तिकयोजनामाह(पारमा०) यथा राजा 'इह' लोके भाण्डागारिकेण विनीतेन दानादीनि करोति । तेन तु प्रतिकूलेन कुतोऽपि वैगुण्यादविधेयेन न करोति स राजा दानादीनि । इति गाथार्थः ॥ १५७ ॥ जह राया तह जीवो, भंडारी जह तहतरायं च । तेण उ विबंधएणं,न कुणइ सोदार्णमाईणि ॥ १५८॥ PI व्याख्या-यथा राजा तथा जीवः तत्तुल्यो माण्डारिको यथा तथाऽन्तरायिक कर्म भवति भाण्डा
गारिकसदृशं जायते । अयमत्र भावार्थ:-यदा तदन्तरायं क्षयोपशमादनुकूलं भवति जीवस्य तदाऽसौ है दानादीनि करोति । तेन तु' पुनरन्तरायकर्मणा 'विवन्धकेन' प्रतिकूलेन न करोति स जीवो दानभोगादि आदिशदादुपभोगादिपरिग्रहः । इति गाथार्थः ॥ १५८ ॥
तदेवान्तरायं संख्याभेदेन दर्शयति-.. (पारमा०) यथा राजा तथा जीवः, यथा भाण्डागारिकस्तथाऽन्तरायं पुनः। तेन त्वन्तरायण "विबन्धकेन' प्रतिकूलेन न करोति स जीवो दानादीनि । इति गाथार्थः॥ १५८॥ १ व्याख्याकारेण तु "तहतराईयं" २ "दाणभोगाई" इति पाठानुसारेण व्याख्यातम् ॥
For Private And Personal Use Only