________________
Shri Mahavir Jain Aradhana Kendra
कर्मविपाकः
॥ ६३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतत्पुनर्भवति 'नीयं तु' इति नीचैर्गोत्रं भुम्भुलककारिकुम्भकारप्रतिमम् । इति गाथार्थः ॥ १५५ ॥ गोत्रं निगमयन्नन्तरायक प्रस्तावनामाह
गोयं भणियं अहुणा, अट्टमयं अंतराययं होइ । तं भंडारियसरिसं, जह होइ तहा निसामेह ॥ १५६ ॥
व्याख्या- 'गोत्रं' सप्तमं कर्म 'भणितं' प्रतिपादितम् । 'अधुना' साम्प्रतं अष्टममेवाष्टमकं, अन्तराये भवमान्तरायिकं कर्म 'भणामः' पतिपादयामः, तत्किंभूतम् ? इत्याह- 'भाण्डारिकसदृशं' भाण्डागारनियुक्तपुरुषतुल्यं ( यथा भवति) तथैव 'निशमयत' आकर्णयत यूयं कथ्यमानमिति शेषः । इति गाथार्थः ॥ १५६ ॥ अत्रैवार्थे दृष्टान्तमाह अन्वयव्यतिरेकाभ्याम् -
( पारमा० ) गोत्रं भणितम्, अधुनाऽष्टमकं अन्तरायकं भवति तद्भाण्डागारिकसदृशं यथा भवति तथा 'निशमयत' शृणुत । इति गाथार्थः ॥ १५६ ॥
प्रतिज्ञातमाह
जह राया इह भंडारिएण विणिएण कुणइ दाणाई । तेण उ पडिकूलेणं, न कुणइ सो दाणेमाईणि ॥१५७॥
व्याख्या - यथेति दृष्टान्तार्थः । यथा 'राजा' नरपतिः 'इह' अमिलोके 'भाण्डारिकेण खनियोगिकेन 'विनीतेन' स्वायत्तेन 'करोति' विधत्ते दानमादौ येषां तानि दानादीनि, आदिशब्दाद्भोगोपभोगपरिग्रहः,
१ व्याख्याकारेण तु “अंतराइयं भणिमो" इति पाठानुसारेण व्याख्यातम् । २ “दाणमाई उ” इति व्याख्यातारः ||
For Private And Personal Use Only
टीकाद्वयोपेतः ॥
॥ ६३ ॥