________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-'अधनः' अविचमानधनो बुद्ध्या वियुक्तो बुद्धिवियुक्तो बुद्धिरहितो, रूपेण विहीनः रूपविहीनः, सोऽपि आस्तां रूपयुक्तो यस्य' कर्मणः 'उदयेन' विपाकेन 'लोके' जने 'लभते' प्रामोति 'पूजा' अभ्यर्चनं वस्त्रालङ्कारस्रगादिभिरुचैर्गोत्रनामकर्म तद्भवति विशेषम् । इति गाथार्थः॥१५४॥
उक्त उजैर्गोत्रविपाकः, अधुना नीचैर्गोत्रविपाकमाह(पारमा०)'अधनी' धनहीनः 'बुद्धिवियुक्तः' मतिनिर्मुक्तः 'रूपविहीनः' रूपरहितोऽपि 'यस्य' कर्मण उदयेन लोके जातिमात्रादेव पूजां लभते, तदुर्गोत्रं पूर्णकलशकारिकुम्भकारतुल्यम् । इति गाथार्थः ॥ १५४॥
नीचर्गोत्रविपाकमाहसधपोरूवेण जुओ, बुद्धीनिउणोवि जस्स उदएणं। लोयम्मि लहइ निन्द,एयं पुण होइनीय तु॥१५५॥ - व्याख्या-'सधनी विद्यमानधनः 'रूपेण युक्तः' रूपसहितः, बुद्ध्या निपुणो मतिनिपुणा, सोऽप्येवंविधो 'यस्य' कर्मणः 'उदयन' विपाकेन 'लोके' जने 'लभते' प्रामोति निन्दा' जुगुप्सा, अकुलीनोऽयं किमस्य गुणैः । एतत्पुनः कर्म नीचैर्गोत्रं निकृष्टगोत्रं विज्ञेयम् । इति गाथार्थः॥१५५॥
प्रतिपादितं गोत्रकर्म, अधुना गोत्रनिगमनपूर्वकमन्तरायमाह(पारमा० )सधनो रूपेण युक्तो बुद्धिनिपुणोऽपि 'यस्य' कर्मण उदयेन लोके धृतिकापुत्रोऽयमित्यादिनिन्दां लभते। १ व्याख्याकारेण तु “सधणी" इति पाठानुसारेण व्याख्यातमस्ति ॥
AAAAAAAA
For Private And Personal Use Only