________________
Shri Mahavir Jain Aradhana Kendra
क० ११
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथा मनुष्यस्य द्वौ हस्तौ द्वौ पादौ इत्यादिनियमः । 'लिङ्गाकृतिजातिनियमनं' लिङ्गाकृत्योर्जातौ जन्मनि नियमनं यच्च । यथा पुरुषस्य श्मश्रुप्रभृति लिङ्गं, अधृष्यत्वादिका चाकृतिः । स्त्रियश्च स्तनादिकं चिह्नं, अभिगम्यत्वादिका चाकृतिः । तत्र सूत्रधारतुल्यो निर्माणस्य भवति निश्चितं विपाकः । यथा सूत्रधारः शिलाकुट्टकैः कृतानि खरशिलादीनि देवकुलाङ्गानि यथास्थानं निवेशयति । तथा निर्माणमपि अङ्गोपाङ्गनाम्ना निर्मितानि शरीराङ्गादीनि । इति गाथार्थः ॥ १४८ ॥
तीर्थकरनामाह
उदए जस्स सुरासुर-नरवनिवहेहिँ पूइओ होइ । तं तित्थयरं नामं, तस्स विवागो उ केवलिणो ॥ १४९ ॥
व्याख्या- 'उदये' विपाके 'यस्य' कर्मणः सुरा ज्योतिष्कवैमानिकाः, असुरा भवनवासिनः, नरपतयो राजानः, सुराश्वासुराश्च नरपतयश्च सुरासुरनरपतयः, तेषां निवहाः संघाताः तैः; 'पूजितः' अर्चितः 'भवति' जायते तदेवंभूतं 'तीर्थकरं' तीर्थकरणशीलं, ताच्छीलिकष्टः, 'नाम' नामकर्म, 'तस्य' तीर्थकरकर्मणो 'विपाकस्य' अनुभवश्च तात्त्विकः केवलिन एव तीर्थकरस्य; नाकेवलिनः, तस्य समस्तैः पूजनासंभवात् । इति गाथार्थः । १४९ ॥ व्याख्यातं तीर्थकरनाम, तद्व्याख्यानात्सप्रपञ्चं नामकर्मापि व्याख्यातम् । साम्प्रतं सूत्रकार एव गोत्रप्रतिपादनायाह
( पारमा० ) 'उदये' विपाकानुभवे 'यस्य' कर्मणः, सुरा वैमानिकादयः, असुरा भवनपतिविशेषाः, नरा मनुष्यास्तेषां पतयः सौधर्मेन्द्रचमरसम्राडूराजादयः, तेषां निवहैः पूजितो भवति तत्तीर्थकरनाम, तस्य विपाकः पुनः केवलिनः
For Private And Personal Use Only