________________
Shri Mahavir Jain Aradhana Kendra
कर्मविपाकः
॥ ५९ ॥
116
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवो भवति । दुःस्वरोदये विस्वरः खरभिन्नहीनदीनस्वरो जल्पन् 'जनद्वेध्यः' अप्रीतिपदं भवति । इति गाथार्थः ॥ १४५ ॥ टीकाद्वयोआदेयानादेये आह
पेतः ॥
आएज्जकम्मउदए, चिट्ठा जीवाण भासणं जं च । तं बहु मन्नइ लोओ, अबहुमयं इयरउदपणं ॥ १४६ ॥
व्याख्या — आदेयनान्नः कर्मणः 'उद्ये' विपाके 'चेष्टा' शरीरव्यापारलक्षणा जीवानां 'भाषणं यच्च' जल्पनं यच्च 'तत्' सर्व 'बहु मन्यते' अन्तःप्रीतियुक्तस्तत्तथैव प्रतिपद्यते 'लोकः' जूनः । 'अबहुमतं' अनभिप्रेतं चेष्टाजल्पादिकमितरस्य पुनरनादेयनाम्न्नः कर्मण उदयेन विपाकेन । इति गाथार्थः ॥ १४६ ॥
उक्तमादेयानादेयनाम, साम्प्रतं यशः कीर्त्त्ययशः कीर्त्तिनामाह
( पारमा० ) आदेयकर्मण उदये 'चेष्टा' उच्छृङ्खलरूपा जीवानां या, 'भाषणं' असमञ्जसप्रलपनं यच्च तद्बहुमन्यते लोकः । इतरदनादेयं, तस्योदये चेष्टा हसितललितादिका भाषणं युक्तियुक्तस्यापि अबहुमतम् । इति गाथार्थः ॥ १४६ ॥ यशः कीर्त्त्ययशः कीर्त्ती आह
जस्सुदपणं जीवो, लहइ हु कित्तिं जसं च लोगम्मि । तं जसनामं कम्मं, अजसुदए लहइ विवरीयं ॥ १४७॥
व्याख्या- 'यस्य' कर्मण: 'उदद्येन' विपाकेन 'जीवः' प्राणी 'लभते तु' प्रामोत्येव कीर्त्तियशस्तु, एकदिग्गामिनी कीर्त्तिः, सर्वदिग्गामि यशः, अथवा - " दानपुण्यफला कीर्त्तिः, पराक्रमकृतं यशः " । अथवा एकमेवेदं नाम, यशसोपलक्षिता कीर्त्तिर्यशः कीर्त्तिः कीर्त्तिशब्दस्य पूर्वनिपातः प्राकृतत्वात्, 'लोके' जने
For Private And Personal Use Only
॥ ५९ ॥