________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( पारमा० ) सुभगकमदेयाद्भवति निश्चितं जीवः, तुशब्दस्य विशेषणार्थत्वात्, अनुपकारकृदपि सर्वजनस्येष्टो मनः प्रियः । दुर्भगकर्मोदये पुनःशब्दस्य विशेषणार्थत्वात्, उपकारकृदपि 'दुःखदः' मनोनयनानामप्रियप्रतिमः स सकललोकस्य भवतीत्यत्रापि योज्यम् । यदाह - "अणुवकएवि बहूणं, होइ पिओ तस्स सुभगनामुदओ । उवगारकारगोवि हुन रुचाई दूभ सुदर ॥ १ ॥ सुभगुदएवि हु कोई, कंची आसज्ज दूभगो जइवि । जायइ तद्दोसाओ, जहा अभवाण तित्थयरी ॥ २ ॥” इति गाथार्थः ॥ १४४ ॥
सुखदुःखरे आह
सूरकम्मुद एणं, सूसरसदो ये होइ इह जीवो। दूसरउदए विसेरो, जंपतो होइ जणवेसो ॥ १४५ ॥
व्याख्या - सुखरं शोभनखरं तच तत्कर्म च सुखरकर्म तस्योदयेन विपाकेन 'सुखरशब्दस्तु' शोभनध्वनिरेव 'भवति' जायते इह' अस्मिन् लोके 'जीवः' प्राणी । दुःखरनाम्नः पुनरुदये विपाके 'विरसः' इतिविशेषेण गतो रसो माधुर्यलक्षणो यस्य स विरसः श्रुत्यसुखदः 'जल्पन्' वदन् 'भवति' जायते 'जनद्वेष्यः' लोकाप्रीत्युत्पादकः । इति गाथार्थः ॥ १४५ ॥
उक्तं सुखदुःखरनाम, साम्मतमादेयानादेयनामाह
( पारमा० ) सुस्वरकर्मोदयाद्वीन्द्रियादीनां शब्दः स्वरः, शोभनः स्वरः सुस्वरः श्रोत्रप्रीतिहेतुः एवंभूतश्च 'इह'. संसारे १ 'उ' इति व्याख्याकाराः । २ व्याख्याकारेण तु "विरसो" इति पाठानुसारेण व्याख्यातमस्ति ॥
For Private And Personal Use Only