________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
ALSOCIRCRACCROCCASIOS
६ नन्वेकेन्द्रियादीनां पर्याप्तिसंख्योक्ता, असंज्ञिनां तु पञ्चेन्द्रियसम्मूर्छजानां नोक्ता, तत्कथं तेषां संख्याऽवसीहै यते? इत्याह तेषामपि पञ्चैव पर्याप्तयो मनोरहितत्वात् । एतदपि कुतः?, संज्ञिविशेषणान्यथानुपपत्त्या,
तदैव सार्थकं भवेत्संज्ञिविशेषणं यदैव संज्ञिन एव षट् पर्याप्तयो नासंज्ञिनः । अन्यथा व्यवच्छेद्याभावा६ संज्ञिग्रहणं निरर्थकं स्यात् , तस्यासंज्ञिग्रहणसामर्थ्यात्पारिशेष्यन्यायाचासंज्ञिनां पञ्चेन्द्रियाणां पञ्चैव पर्या-18 |सयो भवन्तीति कृतं प्रसङ्गेन । प्रकृतं प्रस्तुमः । इति गाथार्थः ॥ १३६ ॥
उक्ता पर्याप्तिसंख्या, साम्प्रतं सहेतुकं पर्यासिखरूपमाह(पारमा०) 'आहारसरीरिंदियपजत्तित्ति' आहारपर्याप्तिः शरीरपर्याप्तिरिन्द्रियपर्याप्तिरिति पर्याप्तिशब्दः प्रत्येक योज्यते । 'आणपाणभासमणे' इत्यत्रापि तेनानपानपर्याप्तिर्भाषापर्याप्तिर्मनःपर्याप्तिरिति । तत्र यया बाह्यमाहारमादाय खलरस| रूपतया परिणमयति साहारपर्याप्तिः। यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जशुक्रलक्षणसप्तधातुरूपतया परिणमयति |सा शरीरपर्याप्तिः।यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः। यया पुनरुच्चासप्रायोग्यवर्गणादलिकमादायोच्छासरूपतया परिणमय्यालम्ब्य च मुश्चति सा उच्छासपर्याप्तिः । यया तु भाषाप्रायोग्यवर्गणादलिकं गृहीत्वा भाषात्वेन परिणमय्यालम्ब्य च मुश्चति साभाषापर्याप्तिः। यया पुनर्मनोयोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुश्चति सा मनःपर्याप्तिः। एताश्च यथाक्रम चतस्रः पञ्च षट् च एकेन्द्रियविकलेन्द्रियसंज्ञिनां भवन्ति । यत्तु तत्त्वार्थे पर्याप्तीनां पञ्चसंख्यात्वमुक्तं तदिन्द्रियपर्याप्तौ मनःपर्याप्तेरन्तर्भावात् । यत्पुनरागमे तदेवं, यथा भगवत्याम्
वन-55AM
For Private And Personal Use Only