SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मविपाकर ॥५५॥ CREASICALECTECECAM अधुना बादरसूक्ष्मे आह सटीकाद्ववी पेतः। बायरनामुदएणं, बायरकाओउ होइ सो नियमा। सुहुमेण सुहुमकाओ, अंतमुहुत्ताउओ होइ ॥१३५॥ व्याख्या-वादरनान्न' कर्मणः 'उद्रयेन' विपाकेन 'बादरकाय एवं' स्थूलकाय एव भवति' जायते, 'स' जीवः 'नियमात्' अवश्यंतया 'मूक्ष्मेण सूक्ष्मनामकर्मोदयेन 'सूक्ष्मकाय' श्लक्ष्णकायो भवति । स च भवन, कियत्कालायुर्भवति ? इत्याह-'अन्तर्मुहुर्तायुर्भवति' मुहूर्तमध्ये कालं करोतीत्यर्थः । इति गाथार्थः ॥१३५॥ पर्याप्तिसंख्याबारेण येषां प्राणिनां यत्परिमाणाः पयोप्तयो भवन्ति तदर्शयितुमाह(पारमा०)बादरत्वं यद्वशात्पृथिव्यायेकैकस्य जन्तुशरीरस्य चक्षुर्ग्राह्यताया अभावेऽपि बहूनां समुदायस्य चक्षुर्माता भवति सपरिणामविशेषः, तन्निबन्धनं नाम बादरनाम, तस्योदयाद्वादरकायःस प्राणी नियमेन भवति । तद्विपरीतसूक्ष्मनाम, यदुद-1 यान्न कदाचिदपि देहिदेहस्य चक्षुर्ग्राह्यता भवति तेन सूक्ष्मकायः,स चान्तर्मुहूर्तायुर्भवतीति प्रसङ्गतोऽभिहितम्। इति गाथार्थः। इदानीं पर्याप्तापर्याप्तयोरवसरः, तत्र पर्याप्तनाम यदुदयात्स्वयोग्यपर्याप्तिनिर्वर्तनसमर्थों भवति, अतः पर्याप्ति|निरूपणपूर्वकं तदाहआहारसरीरिंदिय-पजत्ती आणपाणभासमणे। चत्तारि पंच छप्पि य, एगिदियविगलसन्नीणं ॥ १३६ ॥ व्याख्या-आहारशरीरइन्द्रियानमाणभाषामनःपर्याप्तयः षड् भवन्ति । ताश्च चतस्रः पश्न षडपि चैके|न्द्रियविकलसंज्ञिनां यथासंख्येन भवन्ति, अपिशब्दान्न भवन्ति च, केषांचिदपर्याप्तानामेव कालकरणात् । । For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy