________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गत्या । किंविशिष्टया ? इत्याह- 'वरवृषभगत्या' वृषभो बलीवर्दः, वरः प्रधानः, वरश्वासौ वृषभश्च वरवृषभः तस्य गतिस्तया, वरवृषभस्येव गतिः पुरुषस्य यत्र इत्यभिप्रायः । सा च 'शुभा' प्रशस्ता शुभैव, चश उदस्यैवकारार्थत्वात् विहायोगतिरिति वक्तव्या । 'विहायगतिनामकर्म' इति पाठ: प्राकृतत्वाद्वकारस्या| कारलोपे ओलोपे च । सा च केषां भवति ? इत्याह-हंसादीनां, आदिशब्दान्मतङ्गजादिपरिग्रहः, 'भवेत्' जायेत । तुशब्दस्यैवकारार्थत्वात् । इति गाथार्थः ।। १२८ ।।
उक्ता प्रशस्ता गतिः, अप्रशस्तगतिमाह
( पारमा० ) विहायसाऽऽकाशेन गतिर्विद्दायोगतिः । ननु विहायसः सर्वगतत्वात्तदन्यत्र गतिसंभवाभावाद्विहायोविशेषणमनर्थकम् नैवम्, विहायोग्रहणं नाम्नः प्रथमप्रकृतिगतितोऽस्या विशेषणार्थम् । ततो यस्य कर्मण उदयाज्जीवो वरवृषभगत्या गच्छति सा शुभैव शुभिका विहायोगतिः । सा तु हंसादीनां आदिशब्दाद्गज वृषभादीनां भवेत् । इति ग़ाथार्थः १२८ ॥ अशुभविहायो गतिमाह
जस्सुदपणं जीवो, अमणिट्ठाए उ गच्छइ गईए । सा असुभा विहगगई, उहाईणं भवे सा उ ॥ १२९ ॥
व्याख्या—'यस्य' कर्मण 'उदयेन' विपाकेन 'जीवः' प्राणी 'अमणिट्ठाए उ' अमनोज्ञयैव 'गच्छति' याति 'गत्या' पादविहरणादिलक्षणया, सा 'अशुभा' अशोभना विहायोग तिर्नामकर्म, साच केषां भवति ? इत्याहउष्ट्रादीनां, आदिशब्दाद्रासभादीनां 'भवेत्' जायेत । 'सा तु' सा पुनरुष्ट्रादीनामेव, नान्येषाम् । इति गाथार्थः ।
For Private And Personal Use Only