________________
Shri Mahavir Jain Aradhana Kendra
कर्मवि
पाकः
॥ ५१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उच्छ्रासनामाह
जस्सुदपणं जीवे, निष्पत्ती होइ आणपाणूणं । तं ऊसासं नामं, तस्स विवागो सरीरम्मि ॥ १२४ ॥
व्याख्या – 'यस्य' कर्मण: 'उदयेन' विपाकेन 'जीवे' जीवस्य 'निष्पत्तिः' निर्वृत्तिर्भवति 'आनप्राणयोः' उच्छ्रासनिःश्वासयोः, तदुच्छासनाम, उच्यत इति क्रिया । 'तस्य' चोच्छ्रासनाम्नः कर्मणो 'विपाकः' उदयः 'शरीरे' औदारिकादिलक्षणे । इति गाथार्थः ॥ १२४ ॥
उक्तमुच्छ्वासनाम, अधुनाऽऽतपनामाह
( पारमा० ) यस्य कर्मण उदयेन जीवस्य 'आनपाननिष्पत्तिः' उच्छ्रासनिःश्वासलब्धिरुपजायते तदुच्छासनाम । तस्य विपाकः शरीर इति । अयमभिप्रायः - जीवविपाकित्वेऽप्युच्छ्रासनाम्नो विशिष्ट एव शरीरे उदयः, नापान्तराल-गत्यादी । इति माथार्थः ॥ १२४ ॥
आतपनामाह
जस्सुद एणं नीवे, होइ सरीरं तु ताविलं इत्थ । सो आयवे विवागो, जह रविविचे तहा जाण ॥१२५॥
व्याख्या- 'यस्य' कर्मण: 'उदयेन' विपाकेन 'जीवे' जीवस्य षष्ठ्यर्थे सप्तमी सर्वत्र द्रष्टव्या, अकारान्तं वा पदं प्राकृतत्वादेकारान्तम्, 'भवति' जायते 'शरीरं प्रतीतं, तुशब्दस्यैवकारार्थत्वात्, 'ताविलमेव' तापयुक्तमेव 'अन' अस्मिन् लोके, स आतपनान्नः कर्मणः 'विपाका' उदयः, क इव ? इत्याह-यथा रवि
For Private And Personal Use Only
टीकाइयो. पेतः ॥
॥ ५१ ॥