________________
Shri Mahavir Jain Aradhana Kendra
कर्मवि
पाक:
॥ ४३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या—'आहारपुद्गलाः' आहारकशरीरप्रायोग्याः 'इह' अस्मिन् संसारे 'आहारकत्वेन ये निवास्तु' ५ टीकाद्वयोआहारकभावेन ये, क ? प्राक् शरीरग्रहणकाले जीवेन गृहीता एव । 'अन्ये च' उत्तरकालभाविनो 'बध्यमानाः ' गृह्यमाणा एवाहारकपुद्गला', 'ये तु' य एवाहारकशरीरनिवर्तनक्षमाः । इति गाथार्थः ॥ १०२ ॥
पेतः ॥
आहारकपुद्गलसंबन्धद्वारेण बन्धनमाह
तेसिं जं संबंधं, अवरोप्पर पुग्गलाणमिह कुणइ । तं जउसरिसं जाणसु, आहारगबंधणं पढमं ॥ १०३ ॥
व्याख्या–‘तेषां' उक्तखरूपाहारकपुङ्गलानां 'यत्' कर्म संबन्धयोग्यं 'परस्परं' अन्योऽन्यं वद्धबध्यमानानां 'इह' अस्मिँल्लोके 'करोति' निर्वर्तयति 'तत्' कर्म 'जतुसदृशं' लाक्षातुल्यमुक्तन्यायेन 'जानीहि' विडि आहारक बन्धनं 'प्रथमं' आयम् । इति गाथार्थः ॥ १०३ ॥
उक्तमाहारक बन्धनं प्रथमम्, द्वितीयादीन्याह
एवाहारगतेयग, आहारयकम्मबंधणं तह य । आहारतेयकम्मग-बंधणनामपि एमेव ॥ १०४ ॥ व्याख्या - एवशब्दव्याख्या प्राग्वत् । यथाssहारकपुद्गलानामाहारकपुद्गलैरेवाहारका हारकबन्धनम्, तथाऽऽहारकतेजः पुद्गलैरेवाहारकतेजोबन्धनं द्रष्टव्यं द्वितीयम् । तथाssहारककार्मणवन्धतं च तृतीयम् । आहारकतैजसकार्मणबन्धननामाप्येवमेव । यथाऽऽहारकबन्धने व्याख्यातं तथाऽत्रापि द्रष्टव्यम् । इति गाथार्थः ॥ १०४ ॥
For Private And Personal Use Only
॥ ४३ ॥