________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailassagarsuri Gyanmandi
व्याख्या-औदारिकौदारिकवन्धनं प्रथमम्।औदारिकपुद्गलानामौदारिकपुद्गलैरेव संबन्धः प्रथमं बन्धनम्। है औदारिकाणामेव पुद्गलानां तेजःपुद्गलैर्यः संबन्धो द्वितीयबन्धनमेतत्। औदारिकपुद्गलानामेव कार्मणपुद्गलै
येत्संबन्धकरणं तत्तृतीयम्, त्रयाणामपि 'योगे' संबन्धे चतुर्थ तु बन्धनं, औदारिकतैजसकार्मणपुद्गलानां पुनर्मीलने चतुर्थ बन्धनम् । इति गाथार्थः ॥१३॥
औदारिकादिवन्धनखरूपमाह(पारमा०) बध्यतेऽनेनेति बन्धनम् । औदारिकस्यौदारिकेन सह बन्धनं औदारिकौदारिकबन्धनम्, अर्थादाद्यम् । एवमौदारिकतैजसबन्धनं द्वितीयम् । औदारिककार्मणबन्धनमर्थात्तृतीयम् । त्रयाणामप्यौदारिकतैजसकार्मणानां योगे पुनश्चतुर्थम् ॥ ९३ ॥ एतदेव व्याचष्टे
ओरालपुग्गला इह, बद्धा जीवेण जे उरालत्ते । अन्ने 3 बज्झमाणा. ओरालियपुग्गला जे ये ॥९४॥ ६ व्याख्या-उदाराश्च ते पुद्गलाश्च ते उदारपुद्गलाः 'इह' अस्मिल्लोके बहाः' गृहीता 'जीवेन' प्राणिना,
'ये' पुद्गलाः क ? 'उदारत्वे' उदारभावे । किमुक्तं भवति-यैः पुद्गलैरुत्तरकालमौदारिकं शरीरं निवेतेयति जीवः ते जीवनात्मसात्कृता 'अन्ये च बध्यमानाः' वर्तमानकालभाविन एष्यत्कालभाविनश्चीदारिकपुद्गला 'ये तु' य एव बद्धा बध्यमानाश्च त एवौदारिकबन्धनकारणम् । इति गाथार्थः ॥ ९४ ॥
१ "य" २ "" इति व्याख्याकाराः॥
SRAESISERIIKUMS***
For Private And Personal Use Only