________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CANAKKOR SUASANAISAIALISTAS
शरीरप्रायोग्यान् पुद्गलानादाय औदारिकशरीररूपतया परिणमय्य च जीवः स्वप्रदेशैः सहान्योऽन्यानुगमरूपतया संबन्धयति तदौदारिकनाम । शेषशरीराण्यप्येवमेवेति-शेषशरीरनामस्वपीयं भावना कार्या । इति गाथार्थः । ८९॥
_ अङ्गोपाङ्गनामाहअंगोवंगविभागो, उदएणं होइ जस्स कम्मस्स । तं अंगुवंगुनाम, तस्स विवागो इमो होइ॥९॥ __ व्याख्या-अङ्गोपाङ्गविभागो विशेष: 'उदयेन विपाकेन यस्य भवति कर्मणस्तदङ्गोपाङ्गनामोच्यते।। 'तस्य' अङ्गोपाङ्गनानः 'विपाकः' अनुभवः 'अयं' (एषः) वक्ष्यमाणलक्षणो भवति । इति गाथार्थः ॥९॥
(पारमा०) अङ्गानि च उपाङ्गानि च अङ्गोपाङ्गानि, अङ्गोपाङ्गानि च अङ्गोपाङ्गानि च अङ्गोपाङ्गानि, 'स्यादावसंख्येयः' (सि० ३-१-११९) इत्येकशेषः, तेषां विभागः-पृथक्त्वं यस्य कर्मण उदयेन भवति तदङ्गोपाङ्गनाम, तस्य |विपाक एष पृथक्त्वभवनलक्षण उक्तरूपो भवति । इति गाथार्थः ॥९॥
अधुनाऽङ्गानि उपाङ्गानि अङ्गोपाङ्गानि च यान्युच्यन्ते तान्याहसीसमुरोयरपिट्टी, दो बाहू ऊरुआ य अटुंगा। अंगुलिमाइ उवंगा, अंगोवंगाइँ सेसाई ॥९१॥ व्याख्या-शिरोमस्तकमुरोवक्षः,उदरं पोई,पृष्ठिःप्रतीता,ौ बाहू प्रतीतो, ऊरू च' ऊरू जङ्घ, अष्टावङ्गानि। अङ्गुलिरादिर्येषां तान्यङ्गुल्यादीन्युपाङ्गानि, अङ्गोपाङ्गानि 'शेषाणि उक्तव्यतिरिक्तानि । इति गाथार्थः॥९१॥
यथा येषामङ्गोपाङ्गानि भवन्ति येषां च न भवन्ति तत्प्रदर्शयन्नाह
RAA%C4KNOKAROSAROKAR
For Private And Personal Use Only