________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाकः
टीकाद्वयो. पेतः॥
॥३९॥
ततोऽन्यस्यानुत्तरसुरशरीरस्यापि अनन्तगुणहीनत्वात्। उदारमेवौदारिकं, विनयादित्वादिकणि । विविधा क्रिया विक्रिया, तस्यां भवं वैक्रियम् । तथाहि-तदेकं भूत्वाऽनेकं भवति । अणु भूत्वा महद्भवति । खचरं भूत्वा भूमिचरं भवति । अदृश्यं भूत्वा दृश्यं भवति । अनेकं भूत्वा एकम् , इत्यादि । आह्रियते निर्वय॑ते चतुर्दशपूर्वविदा तीर्थकरऋद्धिस्फातिदर्शनादिकप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादित्याहारकम् , तच्च वैक्रियापेक्षयाऽत्यन्तशुभम् । तेजसा तेजःपुद्गलैनिर्वृत्तं तैजसं यदाहारपरिणमनस्य तेजोलेश्यानिर्गमनस्य च हेतुः। कर्मणो विकारः कार्मणम् । कर्मपरमाणव आत्मप्र. देशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः कार्मणशरीरम् । इदं च जन्तोर्गत्यन्तरसंक्रान्तौ साधकतमं करणम् । एवं उक्तप्रकारेण पञ्च शरीराणि, तेषां विपाक एष वक्ष्यमाणो भवति । इति गाथार्थः ॥ ८८॥ | ओरालियं सरीरं, उदएणं होइ जस्स कम्मस्स । तं ओरालियनामं, सेससरीरावि एमेव ॥ ८९॥ | व्याख्या-औदारिकं शरीरं प्रतिपादितम्-'उदयेन' विपाकेन यस्य भवति कर्मणस्तदौदारिकशरीरनाम ।
शेषशरीराण्यपि' वैक्रियादिशरीराण्यप्येवमेव । यथौदारिकं शरीरमुदयेन यस्य कर्मणो भवति तदौदारिकनाम, तथा वैक्रियादिशरीराद्यपि यस्य कर्मण उदयेन भवति तबैक्रियादिशरीरनाम । एवमेव शब्दार्थः। इति गाथार्थः ॥ ८९॥
उक्तानि शरीराणि, अङ्गोपाङ्गान्याह(पारमा०) औदारिकं शरीरं यस्य कर्मण उदयेन भवति तदौदारिकनाम । इदमुक्तं भवति-यदुदयवशादौदारिक
*HAKAKAKAARAKAAS
॥३९॥
For Private And Personal Use Only