________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालो पेतः॥
कर्मवि-18||पा०५-१-७१) क्षायोपशमिकः, आदिवृद्धीकादेशी, भावशब्दस्य विशेषणम् ।क्षायोपशमिक एव भावे पाका 'भवन्ति' जायन्ते 'भेदाः' विशेषाः। हुशब्दस्यैवकारार्थत्वात् । यत आह सूत्रकारः । इति गाथार्थः ॥८६॥ ॥३८॥
(पारमा०.) एकेन्द्रियादीनामेकेन्द्रियत्वादिसमानपरिणतिलक्षणमेकेन्द्रियादिशब्दव्यपदेशभाक् यत् सामान्यं सा जातिः एकद्वित्रिचतुरिन्द्रियजातिः, एकेन्द्रियजातिः, द्वीन्द्रियजातिः, त्रीन्द्रियजातिः, चतुरिन्द्रियजातिः । जातिरित्यस्यात्रापि योगात्पञ्चेन्द्रियाणां जातिः पञ्चमिका । क्षायोपशमिके भावे भवन्त्येताः । यत आह-क्षायोपशमिकानीन्द्रियाणि, तन्निमित्ता च जातिः । इति गाथार्थः ॥८६॥ एगिदिएसु जीवो, जस्सिह उदएण होई कम्मस्स।सा एगिदियजाई, जाईओ एव सेसों उ॥८७॥ । व्याख्या-एकमिन्द्रियं स्पर्शनलक्षणं येषां ते एकेन्द्रियास्तेषु च, जीवतीति जीवो यस्य कर्मणः 'उदयेन प्रादुर्भावेन 'याति' गच्छति एकेन्द्रियेषु सा एकेन्द्रियजातिः' एकेन्द्रियनाम तत् ।'जातयः' बीन्द्रियादिजातयः | एवेति लुप्तानुखारं पदं प्राकृतत्वात् । एवं शेषा अपि द्वित्रिचतुष्पश्चेन्द्रियलक्षणा यदुदयेन दीन्द्रियादिषूत्पद्यते सा बीन्द्रियादिजातिरुच्यते । इति गाथार्थः ॥ ८७॥ उक्ता एकेन्द्रियादिजातिः, शरीराण्याह| (पारमा०) 'एकेन्द्रियेषु' पृथिव्यादिषु 'जीवः' प्राणी 'यस्य एकेन्द्रियव्यपदेशहेतोः कर्मण इहोदयेन भवति, सा एकेसन्द्रियजातिः। जातय एवं शेषा अपि । ननु इह यस्य कर्मण उदयादेकेन्द्रियो भवति सा एकेन्द्रियजातिरित्युक्तम्, पूर्व
१ व्याख्याकारेण तु-"जाइ" २ "सेसावि" इति पाठानुसारेण व्याख्यातम् ।।
CARCISCARRORAMA
॥३८॥
For Private And Personal Use Only