________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
SOCIRCLICROSOCIRCR
जीऍ उदएण जीवो, नेरइओ होइ नरयपुढवीए।सा भणिया नरयगई, सेसगईओवि एमेव ॥८५॥
व्याख्या-'यस्याः' नरकगतेः 'उदयेन' प्रादुर्भावेन 'जीव' प्राणी नारकिको 'भवति' संपद्यते, व ? 'नरकपृथ्व्यां" प्रतीतायाम्, सा भणिता' प्रतिपादिता नरकगतिः 'शेषगतयोऽपि' तिर्यङ्नरामरलक्षणा अपि 'एवमेव' उक्तन्यायेन । इति गाथार्थः॥८५॥ उक्ता गतिः, एकेन्द्रियादिजातिमाह
(पारमा०) यस्या गतेरुदयेन जीवो नैरयिको भवति नरकपृथिव्यां, सा भणिता नरकगतिः । शेषगतयोऽप्येवमेवेति । अयमाशयः यस्या उदयेन तिर्यक भवति सा तिर्यग्गतिः । यदुदयान्मनुष्यः सा मनुष्यगतिः । यदुदयाच्च देवः सा देवगतिरिति । ननु भवद्भिरित्युक्तं, यदुताह तीर्थकृत् , इदं तु सूत्रकृता स्वयमेवोक्तमिति, नैवम् , तस्यायमाशयः-सर्वोऽपि जिनागमोऽर्थतो जिनप्रणीतः, ततस्तदागमोद्धृतत्वादिदमपि तदुक्तमेवेत्यदोषः । इति गाथार्थः ॥ ८५॥
जातिनामाहइगद्गतिगचउरिदिय-जाई पंचिंदियाण पंचमिया।खयउवसमिए भावे, हंति ह ऐया जओ आह॥८६॥
व्याख्या-एकेन्द्रियदीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिः। जातिशब्दस्य प्रत्येकं संबन्धः। चतस्रो जातयः। पञ्चेन्द्रियाणां पञ्चमिका जातिरुक्तलक्षणा । पञ्चप्रकाराऽपीयं कस्मिन् भावे भवति ?, इत्याह -क्षायोपशमिकभावे । क्षयश्च केषांचित्कर्मणाम्, उपशमश्च कर्मणांमेव क्षयोपशमः, तेन निवृत्तः ठक् (तेन निवृत्तं
१ "भेया” इति व्याख्याकाराः ।।
For Private And Personal Use Only