SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मवि पाक: ॥ ३७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नारकादिगतिसंख्या यतश्चैवं भवति तदाह ( पारमा० ) सर्वैरपि क्षिप्तैर्बन्धन भेदैरिति, अयं भावः - एषां मध्यादौदारिकादिबन्धनपञ्चकस्य त्रिनवतिपक्षोपात्तस्य शेषैदशभिरपि क्षितैखयुत्तरं शतं भवति नाम्नः प्रकृतीनामिति गम्यम् । विपाकभणनं प्रस्तौति – 'एतेषां' द्वित्वारिंशत्सप्तषष्टित्रिनवतित्र्युत्तरशतानां पुनर्विपाकं वक्ष्ये 'यथानुपूर्व्या' क्रमानतिक्रमेण । इति सपादगाथार्थः ॥ ८३ ॥ प्रतिज्ञातमाह | नारयतिरियनरामर- गइभेया चउविहा गई होइ । एसा खलु ओदइए, होइ हु भावे जओ आह ॥ ८४ ॥ व्याख्या–नारकतिर्यङ्नरामर गति भेदाद्विशेषाच्चतुर्विधा गतिर्भवति । 'एषा' प्रागुक्ता 'खलु' निश्चयेन, कस्मिन् भावे भवति ?, इति आह - औदयिके भावे भवति, न क्षायिकादौ । हुशब्दस्यैवकारार्थत्वात् । यत आह सूत्रकार एव । इति गाथार्थः ॥ ८४ ॥ नरकगतिखरूपमाह - ( पारमा० ) नारकतिर्यङ्नरामरगतिभेदाच्चतुर्विधा गम्यते प्राप्यते तथाविधकर्मसचिवैर्जीवैरिति गतिर्भवति । एषा 'खलु' निश्चितमौदयिके भावे भवति । यत आहेतिपदमुदारोक्त्या कर्तृनिर्देशमन्तरेणोपात्तं यत्रकुत्रचिद्विश्रान्त्यभावातीर्थकृतमाक्षिपति । इति गाथार्थः ॥ ८४ ॥ किमाह ? इति चेदुच्यते For Private And Personal Use Only टीकाद्वयोपेतः ॥ ॥ ३७ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy