________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
300
10.
प्राचीन भारतीय अभिलेख पूर्णोत्सङ्गानि गङ्गापुलिनपरिसरारण्यपुण्याश्रमाणि॥ [9] अचरमपरमात्मज्ञानभीष्पादमुष्मानिजभुजमदत्तारातिमाराङ्कवीरः। अभवदनवसानोद्भिननिर्णिणक्ततत्तद्गुणनिवहमहिम्नां वेश्म हेमन्तसेनः॥ [10] मूर्द्धन्यर्द्धन्दुचूडामणिचरणरजः सत्यवाक्कण्ठभित्तौ शास्त्रं श्रोत्रेरिकेशा: पदभुवि भुजयोः क्रूरमौवींकिणाङ्कः। नेपथ्यं यस्य जज्ञे सततमियदिदं रत्नपुष्पाणि हारास्ताडवं नूपुरस्रक्कनकवलयमप्यस्य भृत्याङ्गनानाम्॥ [11]
यद्दोल्लिविलासलबध(ब्ध गतिभिः शल्यैर्व्विदीर्णोरसां 12. वीराणां रण[ ती ]र्थवैभववशादिव्यं वपुर्वि( बि )भ्रताम्।
संसक्तामरकामिनीस्तनतटीकाश्मीरपत्राङ्कितं वक्षः प्रागिव मुग्धसिद्धमिथुनैः सातङ्कमालोकितम्॥ [12]
प्रत्यर्थिव्ययकेलिकर्मणि पुरः स्मेरं मुखं वि( बि)भ्रतोरे13. तस्यैतदसेच कौशलमभूहाने द्वयोरद्भुतम्।
शत्रोः कोपि दधेऽवसादमपरः सख्युः प्रसादं व्यधादेको हारमुपाजहार सुहृदामन्याः प्रहारं द्विषाम्।। [13]
महाराज्ञी यस्य स्वपरनिखिलान्तःपुरवधू14. शिरोरत्नश्रेणीकिरणसरणिस्मेरचरणा।
निधिः कान्ते [:] साध्वीव्रतविततनित्योज्ज्वलयशा यशोदेवी नाम त्रिभुवनमनोज्ञाकृतिरभूत्॥ [14] ततस्त्रिजगदीश्वरात्समनिष्ट देव्यास्ततो प्यरातिव(ब)
लशातनोज्ज्व15. लकुमारकेलिक्रमः।
चतुजलधिमेखलावलयसीमविश्वम्भराविशिष्टजयसान्वयो विजयसेनपृथ्वीपतिः॥ [15]
For Private And Personal Use Only