________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विजयसेन का देवपाड़ा शिलालेख
299
4. ततरतकलासाक्षिणो दाक्षिणात्य
क्षोणीन्द्रवीरसेनप्रभृतिभिरभितः कीर्तिमद्भिर्ख( ब )भूव। यच्चारित्रानुचिन्तापरिचयशुचयः सूक्तिमाध्वीकधाराः पाराशर्येण विश्वश्रवणपरिसरप्रीणनाय प्रणीताः॥ [4] तस्मिन् सेनान्ववाये प्रतिसुभटशतोत्सादनव( ब )ह्यवादी स व्र(ब्रह्मक्षत्रियाणामजनि कुलशिरोदाम सामन्तसेनः। उद्गीयन्ते यदीयाः स्खलदुदधिजलोल्लोलशीतेषु सेतोः कच्छान्तेष्वप्सरोभिईशरथतनयस्पर्द्धया युद्धगाथा
॥[5] . यस्मिन् सङ्गरचत्वरे पटुरटत्तूर्योपहूतद्विषद्वगर्गे येन कृपाणकालभुजगः खेलायितः पाणिना। द्वैधीभूतविपक्षकुञ्जरघटाविश्लिष्टकुम्भस्थलीमुक्तावस्थूलवराटिकापरिकरैळ्याप्तं तदद्याप्यभूत्। [6] गृहाद्गृहमुपागतं व्रजति पत्तनं पत्तनाद्वनाद्वनमनुद्रुतं भ्रमति पादपं पादपात्। गिरेगिरिमधिश्रितन्तरति तोयधिन्तोयधेर्यदीयमरिसुन्दरीसरकष्ठलग्नं यशः॥ [7]
दुर्वृत्तानामयमरि8. कुलाकीर्णकर्णाटलक्ष्मी
लुण्टाकानां कदनमदतनोत्तादृगेकाङ्गवीरः। यस्मादद्याप्यविहतवसामान्समेदः सुभिक्षा हृष्यत् पौरस्त्यजति न दिशं दक्षिणां प्रेत भर्ता॥ [8] उद्गन्धीन्याज्यधूमैर्मृगशिशुरसिताखिन्नवैखानसस्त्रीस्तन्यक्षीराणि कीरप्रकरपरिचितब(ब्रह्मपारायणानि। येनासेव्यन्त शेषे वयसि भवभयास्कन्दिभिर्मस्करीन्द्रैः
For Private And Personal Use Only