________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युवराजदेव द्वितीय का बिलहरी शिलालेख
273
जित्वा कोसलनाथमोड्नृपतेराप्तस्तु यः कालियो रत्नस्वर्णमयः स येन विहितस्सोमेश्वराभ्यर्चनम्। वत्वायः करिवाजिशुभ्रवसनस्त्रक्वन्दनादीन्पुनः संसारश्रमशान्तयेतिविनतस्तुष्टाव तुष्ट पुनः।।62॥ असारं संसारं य इह मनुते कोपि नृपतिस्त्वदंधिव्यानत्या विगलिततमास्तत्वनिरतः। न तस्य घी यो विकृतिकृत्ये जन्मविरहादिति ध्यानाविष्टः शिवमहसि चित्तं विहितवान्।।63॥ श्रीशङ्करगणस्तस्मादभूभूमीश्वरो महान्। यत्पादद्वन्द्वमद्वन्द्वं द्विषद्भिरपि सेवितम्।।64॥ संख्येऽसंख्यविपक्षपक्षदलनव्यासंगि खड्गव्रतं यस्यासीदृढसाहसस्य सततन्दानं जनानन्दकृत्। रूपेणाप्रतिमो मनोभवभवंदपं जहारोद्धतं यः सर्वत्रसद्धकालमवनीनाथ: स्तुतः कोविदैः।।65॥ यत्पादद्वयपद्मसम विततं भूतेरभूद्भूषितं भूपानां नमतां किरीटविकटप्रान्तस्थरत्नांशुभिः। वक्षोरत्नविधि समाश्रितवती लक्ष्मीः क्रमेणागता वीरश्रीरपरैव यस्य नृपतेः कौक्षेयधाराश्रया661 तस्य श्रीयुवराजदेवनृपतिर्धाता कनीयानभूपैर्यच्चरणाविन्दपतितै गैरिवाङ्ग स्थितम्। यः सत्यव्रतसत्त्वसूक्तिवसतिः श्रीविक्रमैकाश्रयः प्रायस्तस्य न सज्जनोपि सकलान्वक्तुं गुणांशख्यति।।671 दंष्टाकोष्टिविपाटनोग्रवदनः क्रूरस्वरोभास्वरोनेत्रप्रान्तविकीर्णकोपरुधिरः पादप्रचारायुधः। येनाक्रम्य भुजेन भूमिपतिना लाङ्लबद्धक्रमो दैत्यो व्याघ्रवपुर्हतोतिभयदः शस्त्रीभृता पाणिना।।68॥
For Private And Personal Use Only