________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हर्ष का बांसखेड़ा ताम्रपत्र
भाषा-संस्कृत लिपि-उत्तर गुप्तकालीन ब्राह्मी, हर्षसंवत् 22 (628 ई०)
ओं स्वस्ति। महानौहस्त्यश्वजयस्कन्धावाराच्छ्रीवर्धमानकोट्या महाराजश्रीनरवर्धनस्तस्य पुत्रस्तत्पादानुध्यातः श्रीवज्रिणीदेव्यामुत्पन्नः परमादित्यभक्तो महाराजश्रीराज्यवर्धनस्तस्य
पुत्रस्तत्पादानुध्यातः, 2. श्रीमदप्सरोदेव्यामुत्पन्नः परमादित्यभक्तो महाराज
श्रीमदादित्यवर्धनस्तस्य पुत्रस्तत्पादानुध्यातः श्रीमहासेनगुप्तादेव्यामुत्पन्नश्चतुःसमुद्रातिक्रान्तकीर्तिः प्रतापानुरागोपनतान्यराजो वर्णाश्रमव्यवस्थापन-प्रवृत्तचक्र एकचक्ररथ इव प्रजा-नामार्तिहरः परमादित्यभक्तः परमभट्टारकमहाराजाधिराज श्रीप्रभाकरवर्धनस्तस्य पुत्रस्तत्पादानुध्यातः सितयशः प्रतानविरच्छुरितसकलभुवनमण्डलः परिगृहीत
धनदवरुणेन्द्रप्रभृतिलोक-पालतेजाः सत्पथोपार्जितानेकद्रविण__ भूमिप्रदानसंप्रीणितार्थिहृदयोऽतिशयित
पूर्वराजचरितो देव्याममलयशोमत्यां श्रीयशोमत्यामुत्पन्नः परमसौगतः सुगत इव परहितैकरतःपरमभट्टारकमहाराजाधिराज-श्रीराज्यवर्धनः। राजानो युधि दुष्टवाजिन इव श्रीदेवगुप्तादयः कृत्वा येन कशाप्रहारविमुखाः सर्वे समं संयताः।
1.
ए०३० खण्ड 4, पृ. 208
165
For Private And Personal Use Only