________________
Shri Mahavir Jain Aradhana Kendra
166
7.
8.
www. kobatirth.org
9.
प्राचीन भारतीय अभिलेख
उत्खाय द्विषतो विजित्य वसुधां कृत्वा प्रजानां प्रियं प्राणानुज्झितवानरातिभवने सत्यानुरोधेन यः || तस्यानुजस्तत्पादानुध्यातः परममाहेश्वरो महेश्वर इव सर्वसत्त्वानुकम्पी परमभट्टारकमहाराजाधिराज श्रीहर्षः अहिच्छत्रा भुक्तावङ्गदीयवैषयिकपश्चिमपथकसम्बद्धमर्कटसागरे समुपगातान् महासामन्तममहाराजा दौस्साधसाधनिकप्रमातारराजस्थानीय - कुमारात्योपरिकविषयपतिभटचाटसेवकादीन् प्रतिवासि - जानपदांश्च समाज्ञापयति विदिमस्तु
यथायमुपरिलिखितग्रामः स्वसीमापर्यन्तः सोद्रङ्गः सर्वराजकुला भाव्यप्रत्यायसमेतः सर्वपरिहृतपरिहारो विषयादुद्धृतपिण्डः पुत्रपौत्रानुगश्चन्द्रार्कक्षितिसमकालीनो
10. भूमिच्छिद्रन्यायेन मया पितुः परमभट्टारकमहाराजाधिराजश्रीप्रभाकरवर्धनदेवस्य मातुर्भट्टारिकामहादेवीराज्ञीश्रीयशोमतीदेव्या ज्येष्ठभातृपरमभट्टारक
11. महाराजाधिराज श्रीराज्यवर्धनदेव-पदानां च पुण्ययशोभिवृद्धये भरद्वाजसगोत्रबह्वृचच्छन्दोगसब्रह्मचारिभट्टबालचन्दभद्रस्वामिभ्यां प्रतिग्रह- धर्मणाग्रहारत्वेन प्रतिपादितो
Acharya Shri Kailassagarsuri Gyanmandir
12. विदित्वा भवद्भिः समनुमन्तव्यः प्रतिवासिजानपदैरप्याज्ञाश्रवणविधेयैर्भूत्वा यथासमुचितुल्यमेयभागभोगकरहिरण्या प्रत्याया एतयोरेवोपनेयाः सेवोपस्थानं च
13. करणीयमित्यपि च ।
अस्मत्कुलक्रममुदारमुदाहरद्भिरन्यैश्च दानमिदमभ्यनुमोदनीयम् । लक्ष्म्यास्तडित्सलिलबुद्बुदचञ्चलाया दानं फलं परयशः परिपालनं
च॥ 2 ॥
14. कर्मणा मनसा वाचा कर्तव्यं प्राणिभिर्हितम् । हर्षेणैतत्समाख्यातं धर्मार्जनमनुत्तमम् ॥3॥
दूतकोऽत्र महाप्रमातारममहासामन्त श्रीस्कन्दगुप्तः । महाक्षपट
लाधिकरणाधिकृतमहासामन्त
For Private And Personal Use Only