________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
137
8.
प्रकाशधर्मा का रिस्थल शिलालेख
राजा जितवर्द्धनस्सुतः।। मखेषु सोमासवपानलालसे समागते यस्य मुहुर्दिवस्पतौ। तताम हस्ताग्रनिवेशितानना वियोगचिन्ताकुलमानसा शची। 8 श्रुतविविक्तमनाः स्थितिमान्बली स्फुटयशः कुसुमोद्गमपादपः। जगति तस्य सुतः प्रथितो गुणैः कुलललाम विभीषणवर्द्धनः। 9 सदुदयैः प्रविकासिभिरुन्चलैरविहतप्रसरैः शुभरोहिभिः। सुचरितैः किरणैरिव भानुमान्क्षततमासि जगन्ति चकार यः10 भुवनस्थितिगोप्तृभिर्नृपैथुरमाद्यैर्विधृतां बभार यः। स्वकुलोचितराज्यवर्धनस्तनयस्तस्य स राज्यवर्द्धनः॥ 11 विललाप मुमोह विव्यथे विनिशश्वास विसंज्ञतां ययौ। उपतप्तमना बलोष्मणा द्विषतां यस्य विलासिनीजनः॥ 12
क्षितिपतितिलकस्य तस्य बाहुद्रविण10. निपीतसमग्रशत्रुदीप्तिः।सुचरितघटितप्रकाशधर्मा नृपतिललामसुतः
प्रकाशधर्मा। 13 अमलिनयशसां प्रभावधाम्नां सकलजगन्महनीयपौरुषाणाम्।
अवितथजनतानुराग11. भाजां स्थितिपदवीमनुयाति यो गुरूणाम्॥ 14
यः स्वान्वयक्रमपरम्परयोपयातमारोपितां गुणरसामहृतेन पित्रा।
लोकोपकारविधये न सुखोदयाय राजश्रियं 12. शुभफलोदयिनीं बिभर्ति॥ 15
आतोरमाणनृपतेर्नुपमौलिरत्नज्योत्स्नाप्रतानशबलीकृपादपीठाम्। हूणाधिपस्य भुवि येन गतः प्रतिष्ठां नीतो युधावितथतामधिराजशब्दः॥ 16
For Private And Personal Use Only