SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir चामीकररइअमेहलाजुत्त-कंत-विच्छिन्न-सोणिचक, जच्चंजण-भमर-जलयपयर-उज्जअ-सम-संहिम-तणुअ-आरज-लडह-सुकुमाल-मउअ-रम|णिज्जरोमराई, नाभीमंडल-सुंदर-विसाल-पसत्थजघणं, करयलमाइअपसत्थतिवलियमझ, नाणामणिकणगरयणविमलमहातवणिज्जा|न्विता, अत एव 'उपचिताः' पुष्टा स्तनवः' सूक्ष्माः, न तु स्थूलाः, 'ताम्राः' रक्ताः लिग्धाश्च नखा यस्याः, तां । पुनः कमलस्य 'पलाशानि' पत्राणि, तद्वत्सुकुमारी करचरणौ यस्याः, तथा कोमला अत एव 'वरा' प्रधाना अङ्गुलयो यस्याः तां। कुरुविन्दावर्त्त-आवत्तविशेषो भूषणविशेषो वा, तद्वद्वत्तानुपूर्वे जो यस्याः, तां । पुन|'निगूढजानु' गुप्तजानु, गजवरकरो-गजेन्द्रशुण्डा, तत्सदृशे पीवरे ऊरू ( साथल इति लोके ) यस्याः, तां । 'चामीकररचिता' सुवर्णघटिता या मेखला, तया युक्तं, अतः 'कान्तं' मनोहरं विस्तीर्ण च 'श्रोणिचक्रं' कटितट यस्याः, तां। पुनर्जात्याञ्जनं-तैलादिमर्दिताञ्जनं, भ्रमराः-प्रतीताः 'जलदा' मेघास्तेषां यः 'प्रकर' समूहस्तद्वच्छयामा तथा 'ऋजुका' सरला 'समा अविषमा 'संहिता' निरन्तरा 'तनुका सूक्ष्मा 'आदेया' सुभगा |'लटभा' सुन्दरा, सुकुमारेभ्यः शिरीषपुष्पादिभ्योऽपि मृदुका, अत एव रमणीया रोमराजिर्यस्याः, तां। पुनर्नाभिमण्डलेन सुन्दरं विशालं प्रशस्तं च जघनं-अग्रेतनकट्यधोभागो यस्याः, तां । 'करतलमेयो' मुष्टिग्राह्यस्तथा प्रशस्ता तिस्रो वल्यो यत्रैवंविधो मध्यभाग उदरलक्षणो यस्याः, तां । पुनर्नानाप्रकारा मणयश्चन्द्रकान्ताद्याः, कनकं पीतवर्ण, रत्नानि-वैडूर्यादीनि, तथा 'विमलं' निर्मलं 'महत्' उत्तमं यत्तपनीयं' रक्तकाञ्चनं, एतत्सत्कानि यान्याभरणान्यङ्गानां ग्रैवेयकङ्कणादीनि, भूषणान्युपाङ्गानां मुद्रिकादीनि, तैर्विरा Ko-KO-KO-KO-KOKOXOXOXOXOXOXOX For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy