________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsur Gyanmandar
पर्युषणा कल्पार्थबोधिन्याः व्या० २
वचियतणुतंबनिद्धनह, कमलपलाससुकुमालकरचरणकोमलवरंगुलिं, कुरुविंदावत्तवट्टाणुपुष्वजंघ, निगूढजाणुं, गयवरकरसरिसपीवरोरु, तां । अत्युन्नतं, अत एव 'पीनं' पुष्टं यदङ्गुष्ठाद्यङ्गं, तत्रस्था "रइअ"त्ति लाक्षादिना रञ्जिता इव, 'मांसला' मांसाकोचं, योजनायामपृथुलं, नीलरत्नमयदशयोजननालं, वज्रमयमूलं, रिष्टरत्नमयकन्दं, रक्तकनकमयबाह्यपत्रं, कनकमयमध्यपत्रमेकं बृहत्कमलं । तसिन्कमले क्रोशद्वयायामपृथुला, एकक्रोशोच्चा, रक्तसुवर्णमयकेसराविराजिता कनकमयी कर्णिका । तस्या मध्येऽर्धक्रोशपृथुलं, क्रोशैकदीर्घ, किश्चिदूनैकक्रोशोच्चं श्रीदेवीभवनं । तस्य पञ्चधनुःशतोच्चानि, तदर्धमानपृथुलानि, पूर्वदक्षिणोत्तरदिस्थितानि त्रीणि द्वाराणि । अथ तस्य भवनस्य मध्यभागे धनुःसार्द्धशतद्वयमिता रत्नमयी वेदिका । तदुपरि च श्रीदेवीयोग्या शय्या । ___ अथ तस्मान्मुख्यकमलापरितश्च तन्मानादर्द्धमानोच्चदीर्घपृथुलानि वलयाकाराण्यष्टोत्तरशतकमलानि श्रीदेव्या आभरणभृतानि । एवं सर्वेष्वपि वलयेषु मूलकमलेनार्धार्धमानत्वं बोध्यं । इति प्रथमं वलयम् । द्वितीयवलये वायव्येशानोत्तरदिक्षु चतुःसहस्रसामानिकदेवानां चतुःसहस्रकमलानि, पूर्वदिशि चत्वारि महत्तरादेवीनां कमलानि, आग्नेय्यां गुरुस्थानीयाभ्यन्तरपर्षद्देवानां अष्टसहस्रकमलानि, दक्षिणस्यां मित्रस्थानीयमध्यमपर्षद्देवानां दशसहस्रकमलानि, नैर्ऋत्यां किङ्करस्थानीयबाह्यपर्षदेवानां द्वादशसहस्रकमलानि, पश्चिमायां गज-तुरग-रथ-पदाति-महिष-गन्धर्व-नाट्यलक्षणसप्तानीकाधिपतीनां सप्तकमलानि । इति द्वितीयं वलयम् । __ततस्तृतीये वलये अङ्गरक्षकदेवानां षोडशसहस्रकमलानि । चतुर्थे वलये अभ्यन्तरपर्षदाभियोगिकदेवानां द्वात्रिंशल्लक्ष* कमलानि । पञ्चमे वलये मध्यमाभियोगिकदेवानां चत्वारिंशल्लक्षकमलानि । षष्ठे वलये बाह्याभियोगिकदेवानां अष्टचत्वारिं
शल्लक्षकमलानि । सर्वसङ्ख्यया च मूलकमलेन सहेका कोटिविंशतिर्लक्षाः पञ्चाशत्सहस्राः शतमेकं विंशतिश्च कमलानामिति ।
सूत्रं ३७ श्रेयोमाङ्गल्यादिसू. चके त्रिशलाया: | खमचतुदशके श्रीदेवीदेहवर्णनं
॥४१॥
॥४१॥
For Private And Personal Use Only