________________
Shri Mahavir Jain Aradhana Kendra
www.kobelirth.org
Acharya Shri Kailassagarsur yanmandir
*
*
*
*
*
*
*
*
* मम मार्गेऽपि च इति । प्रव्रजितः कपिलस्तदन्तिके । मरीचिनाऽप्यनेनोत्सूत्रभाषितेन x कोटाकोटिसागरप्रमितं संसारमुपार्जितम् । * | ततोऽनालोचिततत्कर्मा चतुरशीतिलक्षपूर्वायुः प्रपाल्य मृत्वा चतुर्थे भवे पञ्चमे ब्रह्मकल्पे दशसागरोपमायुर्देवो जातः । ततश्युत्वा पञ्चमे भवे कोल्लाकसन्निवेशे अशीतिलक्षपूर्वायुः कौशिकनामा विप्रो जातः । प्रान्ते त्रिदण्डित्वमाश्रित्य मृतः, बहुकालं भवे भ्रान्तस्ते हि भवाः स्थूलभवमध्ये न गण्यन्ते । कल्पलताऽनुसारेण कौशिकभवादीशाने पद्मानन्दकाव्यानुसारेण च सौधर्मे कल्पे देवो जातस्तदपेक्षयाऽष्टाविंशतिभवा भवन्ति वीरस्य, परंतत्र चक्रीभवादग्विती मनुजभवो गणनायां न गणित इति न भवाधिकत्वशङ्का । ततः षष्ठे भवे स्थूणानगर्या द्वासप्ततिलक्षपूर्वायुः पुष्पमित्राभिधो द्विजस्त्रिदण्डीभूय सप्तमे भवे सौधर्मे कल्पे मध्यस्थितिर्देवो जातः। | ततश्युतो अष्टमे भवे चैत्यसन्निवेशे पष्टिलक्षपूर्वायुः अग्निद्योताभिधो विप्रस्त्रिदण्डित्वं प्रपाल्य नवमे भवे ईशाने कल्पे मध्यमायुदेवः । ततश्च्युतो दशमे भवे मन्दरसन्निवेशे पट्पश्चाशल्लक्षपूर्वायुरग्निभूतिनामा विप्रस्त्रिदण्डित्वं प्राप्य एकादशे भवे तृतीये कल्पे मध्यस्थितिको देवः। ततश्युतोद्वादशे भवे श्वेताम्बीपुर्या चतुश्चत्वारिंशल्लक्षपूर्वायुर्भारद्वाजाख्यो विप्रस्त्रिदण्डित्वं परिपाल्य मृतस्त्रयो___x “यत्तु किरणावलीकारेण प्रोक्तं-कविला ! 'इत्थंपि इहयंपीति वचनं उत्सूत्रमिश्रितमिति, तदुत्सूत्रभाषिणां नियमादनन्तः संसार' इति स्वमतस्थापनरसिकतयेति शेयं । इदं हि तन्मतं-उत्सूत्रभाषिणस्तावन्नियमादनन्त एव संसारः स्यात् , यदि च इदं मरीचिवचनमुत्सूत्र-17 | मित्युच्यते तदा अस्यापि अनन्तः संसारः प्रसज्यते, न चासौ सम्पन्नस्तदिदं उत्सूत्रमिश्रितमिति । तच्चायुक्तं, उत्सूत्रभाषिणां अनन्त एव संसार इति नियमाभावात् , श्रीभगवत्यादिबहुप्रन्थानुसारेण उत्सूत्रभाषिशिरोमणेर्जमालिनिह्नवस्यापि परिमितभवत्वदर्शनात् । न चोत्सूत्र-16 मिश्रत्वकथनेऽपि अस्य मरीचिवचनस्य उत्सूत्रत्वं अपगच्छति, विषमिश्रितानस्यापि विषत्वमेवेत्यलं प्रसंगेने"ति कल्पसुबोधिकायाम् ।
*
*
*
*
*
*
For Private And Personal Use Only