________________
Shri Mahavir Jain Aradhana Kendra
XXXX CX
www.kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अक्खीणस्स अवेइअस्स अणिजिण्णस्स उदपणं, जण्णं अरहंता वा चक्कबट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा ते चामी - "वृषभो वृषभस्य सुताः, भरतेन विवर्जिता नवनवतिः। अष्टौ भरतस्य सुताः, शिवङ्गता एकसमयेन ॥ १ ॥” इदमप्यनन्तकालजातत्वादाश्चार्यम् ९ ।
असंयता - असंयमवन्त आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणस्तेषां 'पूजा' सत्कारः, सर्वदा हि किल संयता एव पूज्यन्ते, अस्यां त्ववसर्पिण्यां नवमदशमजिनयोरन्तरे असंयतानामपि विप्रादीनां पूजा प्रवृत्तेत्येतदाश्चर्यम् १०। इमानि दशाप्याश्चर्याणि अनन्तकालातिक्रमेऽस्यामवसर्पिण्यां जातानि अत एवैषा हुण्डाऽवसर्पिणीत्युच्यते । एवमेव कालसाम्यादन्येष्वपि चतुर्षु भरतेषु पञ्चसु ऐरवतेषु च प्रकारान्तरेण दशाश्चर्याणि ज्ञातव्यानि ।
अथ दशानामप्याश्चर्याणां तीर्थव्यक्तिः अष्टाधिकशतसिद्धिगमनं श्रीऋषभजिनतीर्थे १, असंयतपूजा सुविघिजिनतीर्थे २, हरिवंशकुलोत्पत्तिः शीतलजिनतीर्थे ३, स्त्रीतीर्थ मल्लिजिनतीर्थे ४, कृष्णवासुदेवस्यापरकङ्कागमनं नेमिजिनतीर्थे ५, शेषाणि (उपसर्ग - गर्भहरण-अभावितपर्षञ्चमरोत्पात - चन्द्रसूर्यावतरणरूपाणि पञ्चाश्चर्याणि श्रीवीरजिन तीर्थे ।
तत इदमप्याश्चर्य, केन हेतुना ?, नाम्ना गोत्रस्य, नाम्नो गोत्रस्य वा कर्मणो 'अक्षीणस्य' कालस्थित्याऽसमाप्तस्य 'अवेदितस्य' रस परिभोगेनाननुभूतस्य 'अनिर्जीर्णस्य' जीवप्रदेशेभ्योऽपृथग्भूतस्योदयेनेदृशं वस्तु जायते, यदर्हन्तो वा चक्रवर्त्तिनो वा बलदेवा वा वासुदेवा वाऽन्त्यकुलेषु वा प्रान्तकुलेषु वा तुच्छकुलेषु वा कृपणकुलेषु वा दरिद्रकुलेषु वा भिक्षाचरकुलेषु वा आगता अतीतकाले आगच्छन्ति वर्त्तमानकाले आगमिष्यन्त्यनागतकाले, कुक्षौ
For Private And Personal Use Only