________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobafrth.org
सकामणाद्, एतदप्यनन्तकालभावित्वादाश्चर्यमेवेति २। | तीर्थङ्करा हि भगवन्तः सदा पुरुषोत्तमा एव भवन्ति, परमस्यामवसर्पिण्यां मिथिलाधिपकुम्भराजस्य सुता मल्लिनानी प्राग्भवे माययोपार्जितस्य स्त्रीवेदनामकर्मणस्तपसार्जितस्य च तीर्थकरनामकर्मण x उदयादेकोनविंशतितमजिनत्वेनोत्पन्ना तीर्थ प्रवर्तितवतीत्याश्चर्यम् । | अभाविता पर्षत् , तीर्थकृतां हि देशना सदाऽनिष्फलैव भवति, परं श्रूयते-जृम्भिकग्रामनगराहहिरुत्पन्नकेवलेन भगवता श्रीवर्द्धमानेन कल्पपरिपालनायैव प्रथमसमवसरणे या देशना दत्ता, न तत्र केनापि विरति
हीता । न चैतत्तीर्थकृतः कस्यापि भूतपूर्वमितीदमाश्चर्यम् ४। । कृष्णस्य-नवमवासुदेवस्य अपरकङ्काराजधान्यां गमनमभूदेतदप्यजातपूर्वत्वादाश्चर्यम् * ५। | यथा मायया स्त्रीवेदं तपसा च तीर्थकरनामकर्म समुपार्जितं यथा च पूर्वभवमित्रान् प्रतिबोध्य दीक्षाग्रहणोन्मुखीकृतास्तत्सर्व Xविस्तृतं चरितं मल्लिचरित्रादिभ्यः सुज्ञेयं प्रतीतं चेति नेह प्रपश्चितम् । BI *श्रूयते हि पाण्डवभार्या द्रीपदी असंयत इत्यभ्युत्थानाद्यकरणाद्रष्टस्य नारदस्य प्रयोगाद्धातकीखण्डभरतक्षेत्रापरकङ्कापुरीशेन Xपद्मोत्तरेण स्वमित्रदेवसामर्थेनापहृता, द्वारकावतीशश्च कृष्णो वासुदेवो नारदादुपलब्धवृत्तान्तः समाराधितसुस्थिताभिधानदेवदत्त
मार्गः पञ्चभिः पाण्डवैस्सह द्विलक्षयोजनमानं लवणाब्धिमतिक्रम्य अपरकको गतस्तत्र तर्जितपाण्डवं पद्मोत्तरं रणे निर्जित्य द्रौपदीमानीसातवान् । ततः पश्चाद्वलमानेन कृष्णेन पूरितं पाञ्चजन्यं शङ्ख श्रुत्वा कपिलवासुदेवो तत्रत्यान्मुनिसुव्रतजिनात्कृष्णवासुदेवागमनवार्तामुप
लभ्य सबहुमान कृष्णदर्शनार्थमागतो जलधितीरे, कृष्णश्च तदा समुद्रमुल्लन्यति, ततस्तेन पाञ्चजन्यः पूरितः, कृष्णेनापि तथैव, परस्पर शङ्खशब्दी मिलितो, ततः कृष्णस्यापरकङ्कागमनादिकं सर्वमिदमाश्चर्यम् ५ ॥
पर्यु. क.६
For Private And Personal Use Only