________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा. कल्पार्थबोधिन्याः व्या० २ ॥३०॥
गर्भस्य-उदर सत्त्वस्य हरणं-उदरान्तरसङ्क्रामणं गर्भहरणं, एतदपि तीर्थकरापेक्षयाऽभूतपूर्व सद्भगवतो सूत्रं २३ महावीरस्य जातं पुरन्दरादिष्टेन हरिणैगमेषिदेवेन देवानन्दाब्राह्मण्युदरात्रिशलाऽभिधानाया राजपढ्या उदरे हरिणैगमेकेचिद्वणिजोऽर्थोपार्जनाय नानाविधक्रयाणकभृतशकटाः परदेशं गच्छन्तोऽटव्यां प्रविष्टास्तत्र जलाभावात्तृषाकुलैर्जलं गवेषयद्भिश्चत्वारि पिपुरतोह
वल्मीकशिखराणि दृष्टानि, तन्मध्यादेकं स्फोटितं तैः, तस्माद्विपुलं शीतलं जलं निर्गतं, तेनापगततृषाः पयःपात्राणि भृतवन्तः । ततः 'सिद्धAT मानः समीहितं, अतो मा स्फोटयन्तु द्वितीयं शिखरं' इत्येकेन वृद्धेन निवारिता अपि जना द्वितीयं स्फुोटितवन्तस्तस्माच्च सुवर्ण प्राप्तवन्तः,
दाद्युत्पत्तितथैव वृद्धवारिता अपि तृतीयं स्फोटितवन्तस्तस्माद्रनानि प्राप्य तथैव बहु वारिता अपि लोभान्धास्ते चतुर्थमपि स्फोटयामासुः। तस्माचा विचारविनिर्गतदृष्टिविषाहिदृष्टिपातात्सर्वेऽपि पश्चत्वं प्राप्ताः । स हितोपदेशको वृद्धस्तु न्यायित्वादासनवनसुरेण खस्थाने मुक्तः। एवं तव
प्रदर्शने धर्माचार्यों बर्द्धमानोऽपि इयत्या स्वसम्पदाऽसन्तुष्टो यथा तथा जल्पनेन मां रोषयति, तेनाऽहं स्वतपस्तेजसैनं भस्मसात्करिष्यामि, अतस्त्वं
आश्चर्यट्रातूण गत्वैनमर्थ तस्मै निवेदय, त्वां तु वृद्धवणिजमिव हितोपदेशकत्वाज्जीवन्तं रक्षिष्यामीति श्रुत्वा भीतोऽसी मुनिर्भगवत्समीपे गत्वा
सर्व यथास्थितमुक्तत्वान् । ततो भगवतोतं-'भो आनन्द ! शीघ्रं त्वं गौतमादीन् मुनीन् कथय-यदेष गोशालः समायाति, न केनाप्ययं सम्भाष्यः, सर्वेऽपीतस्ततोऽपसरन्तु' । ततस्तैस्तथा कृते गोशाल आगत्यू प्रभुमवादीत- भोः काश्यप ! किमेवं जल्पसि ? त्वं यदयं गोशालो मङ्गुलिपुत्र इत्यादि, स तव शिष्यस्तु मृतः, अहं तु अन्य एव, परीषहसहनसमर्थ ज्ञात्वा तच्छरीरमधिष्ठितोऽस्मि'। एवं भगवत्पराभवमसहसमानी सुनक्षत्र-सर्वानुभूतिनामानी श्रमणी मध्ये प्रत्युत्तरं कुर्वाणी तेन तेजोलेश्यया दग्धी स्वर्ग गतौ । ततो भगवता* प्रोक्तं-'भो गोशाल ! स एवं त्वं, नान्यः, मुधा किमात्मानं गोपयसि ?, आरक्षण दृष्टेऽङ्गल्या तृणेन थाऽऽत्मानमाच्छादयंश्चौर इव न ह्येवं आत्मानं गोपयितुं शक्यः । एवं च यथास्थिते भगवतोक्ने तेन दुरात्मना प्रभोरप्युपरि तेजोलेश्या मुक्ता, साच प्रभुं त्रिःप्रदक्षिणीकृत्य ॥३०॥ गोशालकशरीरमेवानुप्रविष्टा, तया च दग्धदेहो विविधां पीडामनुभूय सप्तमरात्री मृतः स्वाकृत्ये पश्चात्तापपरत्वादच्युते कल्पे देवत्वेन समुत्पन्नः । प्रभुरपि तस्यास्तापेन षण्मासं यावल्लोहितवक़वाधामनुभूतवान् । ततो रेवतीश्राविकागृहात् सिंहानगारानीतेनाश्वनैमित्तिकेनौषधेन शान्तिर्जाता। तदेवं नामस्मरणमात्रेणापि प्रशमिताखिलदुःखस्य भगवतः कैवल्यावस्थायामपि यदुपसर्गस्तदाश्चर्यम् ।
KAXOKOKAROXEXE-KOKEXOXOK
दशकम्
For Private And Personal Use Only