SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir कवा सुमिणुग्गहं करे। सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुटेइ, अन्भुट्टित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव उसमदत्ते माहणे, तेणेव उवागच्छइ । उवागच्छित्ता उसमदत्तं माहणं जएणं विजएणं वद्धावेइ । वद्धाविया सुहासणवरगया आसत्था वीसत्था करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ठ एवं वयासी ॥६॥ एवं खलु अहं देवाणुप्पिया! अज सयणिजंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे ओराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा, तं जहा-गय जाव सिहिं च ॥७॥ एएसि णं देवाणुप्पिया! ओरालाणं जाव चउद्दसण्हं महायत्कदम्बपुष्पं, तद्वत् समुच्छ्रसितानि-उल्लसितानि रोमाणि कूपेषु-रोमरन्ध्रेषु यस्याः सा समुच्छ्रसितरोमकूपा, एवंविधा सती 'खमावग्रह' स्वमानां स्मरणं करोति, विशिष्टफललाभारोग्यराज्यादिकं विभावयतीत्यर्थः । स्वमावग्रहं कृत्वा शयनीयादभ्युत्तिष्ठति, अभ्युत्थाय 'अत्वरितया' मानसौत्सुक्यरहितया 'अचपलया' कायचापल्याभाववत्या 'असम्भ्रान्तया' अस्खलन्त्या 'अविलम्बितया' विलम्बरहितया राजहंससदृश्या गत्या यत्रैव ऋषभदत्तो ब्राह्मणः सुप्तोऽस्ति तत्रैवोपागच्छति, उपागत्य ऋषभदत्तं ब्राह्मणं जयेन विजयेन वर्धापयति, तत्र जयः-स्वदेशे विजयःपरदेशे, अथवा जयः-परैरनमिभवः प्रतापवृद्धिश्च; विजयः-परेषामसहमानानामभिभवः । वोपयित्वा सुखेन "आसनवरं' भद्रासनं 'गता प्राप्ता, तत आश्वस्ता-गतिजनितश्रमापनयनेन, विश्वस्ता-सोभाभावादनुत्सुका सती करतलाभ्यां परिगृहीतं दशनखं, शिरस्यावत्तं कुर्वती मस्तकेऽञ्जलिं कृत्वा एवमवादीत् । ७-एवं 'खलु' निश्चयेनाहं हे देवानुप्रिय! स्वामिन् ! अद्य शयनीये सुप्तजागरा वारंवारमल्पनिद्रां कुर्वती १-समुदिता दशनखा यस्मिन् स दशनखस्तम्। २-शिरसि-मस्तके आवर्तः प्रदक्षिणभ्रमणं शिरस्यावर्तस्तम् । पर्यु. क.४ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy