SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा • कल्पार्थ बोधिन्याः व्या० १ २ ॥ १८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रे ५-६ देवानन्दा तं जहा -गय-सह-सह-अभिसेय-दाम-ससि दिणयरं झयं कुंभं । पउमसर-सागर - विमाण-भवण रयणुश्चय-सिहिं च ॥ १ ॥ ५ ॥ तणं सा देवाणंदामाहणी इमे प्यारुवे ओराले कल्लाणे सिवे धन्ने मंगले सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धासमाणी हतुचित्तमाणंदिआ, पीरमणा, परमसोमणस्सिभा, हरिसवसविसप्पमाणहियया, धाराहयकथंवपुष्पगं पिव समुस्ससिअरोमकल्याणास्तानू, 'शिवान्' उपद्रवशमकान् 'धन्यान्' धर्मधनप्रापकान् 'माङ्गल्यान्' मङ्गलकारकान् 'सश्रीकान्' * याचतुर्दशसशोभांश्चतुर्दशमहास्वमान् "पासित्ता णं" ति दृष्ट्वा 'प्रतिबुद्धा' जागरिता । स्वमवर्णनम् ५- तद्यथा - गजवृषभ सिंहाः प्रसिद्धाः, अभिषेकः श्रीदेव्याः, “दाम"त्ति पुष्पमाला 'शशी' चन्द्रः 'दिनकर' सूर्यः, ध्वजः प्रतीतः 'कुम्भः' जलपूर्णकलशः, पद्मोपशोभितं सरः 'सागरः' क्षीरसमुद्रः, विमानं देवसम्बन्धि, 'भवनं' गृहं देवानामेव, तत्र यः स्वर्गादवतरति तन्माता विमानं पश्यति, यस्तु श्रेणिकादिवन्नरकादायाति तन्माता भवनपतिदेवप्रासादं पश्यति, 'रत्नोच्चयो' रत्नराशिः 'शिखी' निर्धूमोऽग्निः । ६- ततोऽनन्तरं सा देवानन्दाब्राह्मणी इमान् एतद्रूपान् उदारान् कल्याणान् शिवान् धन्यान् माङ्गल्यान् सश्रीकांश्चतुर्दशमहाखमान् दृष्ट्वा प्रतिबुद्धा “समाणी" त्ति सती, हृष्टं विस्मितं तुष्टं-सन्तोषवचित्तं यथा भवत्येवमानन्दिता, प्रीतिर्मनसि यस्याः सा तथा प्रीतियुक्तचित्ता 'परमसौमनस्थिता' परमं सौमनस्यं - प्रसन्नमनस्त्वं प्राप्ता *, हर्षवशेन 'विसर्पत्' विस्तारयायि हृदयं यस्याः सा हर्षवशविसर्पदुहृदया, तथा धारया मेघसम्बन्धिन्या हतं - सिक्तं * प्रायशः सर्वाण्येतानि एकार्थिकान्यपि प्रमोद प्रकर्षप्रतिपादनार्थत्वात्स्तुतिरूपत्वाच्च न पुनरुक्तदोषदुष्टानि, यत आह "वक्ता हर्ष भयादिभिर्व्याक्षिप्तमनास्तथा स्तुवन्निन्दन् । यत्पदमसकृद् ब्रूया तत्पुनरुक्तं न दोषाय ॥ १ ॥ " For Private And Personal Use Only ॥ १८ ॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy