________________
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
XOXOXOXOXOXOXOXOXOXOXOXO
समणे भगवं महावीरे तित्राणोवगए आवि होत्था, 'चइस्सामि'त्ति जाणइ, चयमाणे न जाणइ, 'चुएमि'त्ति जाणइ । जं रयणि च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वकंते,तं रयणि च णं सा देवणंदा माहणी सयणिजंसि *सुत्तजागरा ओहीरमाणी २ इमे एयारुवे ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउद्दस महामुमिणे पासित्ता णं पडिबुद्धा ॥४॥
अथ यद्यप्यन्यदेवानां षण्मासावशिष्टे आयुषि-"माल्येम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः। दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टे न्तिर्वेपथुश्चारतिश्च ॥१॥" | इत्याचाश्चित्तोद्वेजका भावा जायन्ते, परं तीर्थकृत्सुराणां ते न जायन्ते, यतस्ते पूर्वपुण्योत्कर्षाद्विशिष्टज्ञानकान्त्यादिगुणयुक्ता एव च्यवन्ति, अत आह| ४-श्रमणो भगवान् महावीरो यदा गर्भत्वेनोत्पन्नस्तदा 'त्रिज्ञानोपगतः' मत्यादिज्ञानत्रयोपेतोऽभवत्, तेन 'च्यविष्येऽहमित' इति च्यवनभविष्यत्कालं जानाति, च्यवमानस्तु न जानाति, च्यवनकालस्यैकसामयिकत्वेन सूक्ष्मत्वात्, छानस्थिकज्ञानोपयोगस्य जघन्यतोऽपि चान्तमुहत्तिकत्वात्, च्युतोऽस्मीति जानाति, पूर्वभवायातज्ञानत्रयसद्भावात्। यस्यां रजन्यां श्रमणो भगवान महावीरो देवानन्दाया ब्राह्मण्या “जालन्धरस"गोत्रायाः कुक्षी गभेतया व्युत्क्रान्तस्तस्यां रजन्यां सा देवानन्दाब्राह्मणी शयनीये 'सुप्तजागरा' नातिसुप्ता नातिजामती | "ओहीरमाणी २"त्ति वारंवारं ईषन्निद्रां कुर्वती 'इमान्' वक्ष्यमाणान् एतद्पान्-एतदेव-व्यावर्णितमेव रूपं-स्वरूपं, न न्यूनमधिकं वा कविकृतं, येषां ते एतद्रूपाः, तान् , 'उदारान् प्रशस्तान्, कल्याणान्, कल्याणानां-शुभसमृद्धिविशेषाणां, न त्वशुभासमृद्धिविशेषाणां, हेतुत्वादथवा कल्यं-नीरोगत्वं, न हि सरोगत्वं, अणन्ति-गमयन्ति ये ते
HakkeXXXXXXXXXXX
For Private And Personal use only