________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा ० कल्पार्थ
बोधिन्याः व्या० १
॥ १७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कंताए सागरोवमको डाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआए पंचहत्तरिवासेहिं अद्धनवमेहि य मासेहिं सेसेहिं, इक्कवीसाए तित्थयरेहिं इक्खागकुलसमुत्पन्नेहिं कासवगत्ते हिं, दोहि य हरिबंसकुलसमुप्पन्नेहिं गोअमसगुत्तेहिं, तेवीसाए तित्थयरेहिं विइकंतेहिं, समणे भगव महावीरे चरमतित्थयरे पुञ्चतित्थयरनिद्दिट्ठे, माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए पुवरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुबाग एणं आहारवकंतीए भववकंतीप सरीरवकंतीए, कुच्छिसि गन्भत्तार वकते ॥ ३ ॥
सार्द्धाष्टमासाधिकैस्त्रिभिर्वर्षैश्चतुर्थारकसमाप्तिः । या च पूर्वोक्ता कोटा कोटीसागरेषूना द्विचत्वारिंशद्वर्षसहस्री, सा एकविंशत्येकविंशतिवर्षसहस्रमानयोः पञ्चमषष्ठारकयोः सम्बन्धिनी ज्ञेया । पुनरेकविंशतिषु तीर्थङ्करेषु इक्ष्वाकुकुलसमुत्पन्नेषु काश्यपगोत्रेषु, द्वयोश्च मुनिसुव्रतने म्योर्हरिवंशकुल समुत्पन्न यो गतमगोत्रयोः, एवं त्रयोविंशतिषु तीर्थङ्करेषु व्यतिक्रान्तेषु सत्सु श्रमणो भगवान् महावीरश्वरमतीर्थकरः पूर्वतीर्थङ्करेण श्रीऋषभदेवखामिना भरताग्रे निर्दिष्टः- अयं मरीचिस्तवपुत्रश्चतुर्विंशतितमस्तीर्थङ्करो भावीति कथितः । ब्राह्मणकुण्डग्रामनाम्नि नगरे ऋषभदत्तस्य ब्राह्मणस्य " को डालस " गोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या "जालन्धरस" गोत्रायाः कुक्षौ गर्भतया 'व्युत्क्रान्तः' उत्पन्नः, कस्मिन् समये ? - पूर्वरात्रापररात्रकालसमये, मध्यरात्रावित्यर्थः, हस्तोत्तरानक्षत्रेण चन्द्रस्य योगमुपागते सति 'आहारापक्रान्त्या' दिव्याहारत्यागेन 'भवापक्रान्त्या' देवभवत्यागेन 'शरीरापक्रान्त्या' वैक्रियशरीरत्यागेन, अथवा 'आहारव्युत्क्रान्त्या' अपूर्वाहारोत्पादेन - मनुष्योचिताहारग्रहणेनेत्यर्थः, कुक्षौ गर्भतयोत्पन्नः ॥
For Private And Personal Use Only
सूत्रं ३
देवानन्दो
दरेऽवतर
णात्मकमाद्यं गर्भाधानकल्याणकं
वीरस्य
॥ १७ ॥