________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
आओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता, इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्डभरहे इमीसे ओसप्पिणीए सुसमसुसमाए समाए विइकंताए १ सुसमाए समाए विइकंताए २ सुसमदुसमाए समाए विइकंताए ३ दुसमसुसमाए समाए बहुविइसागरोपमस्थितिकात्, तत्र हि देवानां विंशतिसागराण्युत्कृष्टा स्थितिर्भवति,भगवतोऽप्येतावत्येव स्थितिरासीत्, तस्माद्विमानात् आयुर्देवसत्कं, तस्य क्षयेण, भवो-देवगतिसत्कस्तस्य क्षयेण, स्थितिक्रियशरीरावस्थानं, तस्याः क्षयेण, अनन्तरं-अव्यवहितं "चयं" च्यवं-च्यवनं "चइत्ता"चित्वा-कृत्वा,अथवा "चयं"देहं देवसम्बन्धिनं "चइत्ता" त्यक्त्वा इहैव' अस्मिन्नेव, न पुनरन्यस्मिन् , जम्बूद्वीपाख्ये द्वीपे भारते 'वर्षे क्षेत्रे दक्षिणार्धभरते, अस्यामवसर्पिण्यां सुषमसुषमाख्ये प्रथमारके* चतु:कोटाकोटीसागरप्रमाणे व्यतिक्रान्ते, सुषमानानि द्वितीयारके त्रिकोटाकोटीसागरप्रमाणे व्यतिक्रान्ते, सुषमदुःषमाभिधे तृतीयारके द्विकोटाकोटीसागरप्रमाणे व्यतिक्रान्ते, दुःषमसुषमाख्ये चतुर्थारके + द्विचत्वारिंशद्वर्षसहस्रोनैककोटाकोटीसागरप्रमाणे बहुव्यतिक्रान्ते, किञ्चिदेवावशिष्टे,सा - टमासाधिकेषु पञ्चसप्ततिवर्षेषु शेषेषु सत्सु श्रीवीरोऽवतरितः, द्वासप्ततिवर्षाणि वीरस्यायुः; वीरनिवार्णाच्च * यसिंस्विपल्यायुष्काखिक्रोशदेहमानाश्चतुर्थदिने तुअरीकणप्रमिताहाराः पदपञ्चाशदधिकद्विशतपृष्ठिकरण्डका एकोनपञ्चाशद्दिनापत्यपालका युगलिका भवन्ति । + द्विपख्योपमायुष्का द्विकोशदेहास्तृतीयदिने बदरमानाहारा अष्टाविंशत्यधिकशतपृष्टिकरण्डकवन्तश्चतुःषष्टिदिनापत्यपालका युगलिका भवन्त्यस्मिन् । ४ एकपल्योपमायुष्का एकक्रोशदेहा एकान्तरे भामलकप्रमाणाहाराश्चतुःषष्टिपृष्टिकरण्डकवन्त एकोनाशीतिदिनापत्यपालका युगलिका भवन्त्यस्मिन् । + पूर्वकोटीवर्षायुष्काः पञ्चधनु शतदेहमाना नित्यभोजिनो मनुजा भवन्त्यस्मिन् । लभ्यते शास्त्रेष्वारकत्रयभावियुगलिकस्वरूपनिरूपणमेवं, यथा"इह ति-दुग-इगकोसुच्चा, ति-दुग-इगपलीया अरतिगम्मि । कमा तुअरि-बोरा-मल-माणभोयणा ति-दुग-इगदिणेहिं ॥१॥"
For Private And Personal Use Only