________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तं जहा-इत्युत्तराहिं चुए, चइत्ता गम्भं वकंते १, हत्थुत्तराहिं गम्भाओ गम्भं साहरिए २, हत्थुत्तराहेिं जाए ३, हत्थुत्तराहिं मुंडे नामकः। स्त्रीरूपेण समुत्पन्न:, कुम्भराजस्य सद्मनि ॥ ४५ ॥ कार्य न सुतरां तस्य, शकल्याणत्ववादिभिः। कल्याणकेषु सर्वेषु, कल्याणत्वप्ररूपणम् ॥ ४६॥ नाश्चर्यस्थानवस्तुत्वं, कल्याणकत्वबाधकम् । कल्याणं 'जिनचन्द्र'स्य, गर्भाधान द्विके स्थितम् ॥ ४७॥ अन्यैरप्युक्त-"सिद्धार्थराजाङ्गजदेवराज!, कल्याणकैः पइभिरिति स्तुतस्त्वं ।। तथा विधेह्यान्तरवैरिपट्टू, यथा जयाम्याशु तव प्रसादात् ॥१॥” इति जयतिलकसूरिकृते सुलसाचरित्रे षष्ठसर्गे, तथा “आपाढे |सितषष्ठी १, त्रयोदशी चाश्विने २ सिता चैत्रे ३। मार्गे दशमी ४ सितवै-शाखे सा ५ कार्तिके च कुहः ६॥१॥ वीरस्य पदकल्याणकदिनानी"ति जयसुन्दरसूरिकृते कल्पान्तर्वाच्ये ४ । इत्यलम्पसङ्गेन, कल्याणकानि षडेव वीरस्येत्यागमज्ञाः।
अथ यानि षट्कल्याणकानि भवन्ति तानि स्फुटतरं नामग्राहमभिधित्सुराह'तद्यथा' पञ्चहस्तोत्तरत्वं प्रभोरेवं वक्ष्यमाणप्रकारेण भवति, "हत्युत्तराहिं" इत्यत्र सप्तम्यर्थे तृतीया, अतो हस्तोत्तरायां प्राणतनामदशमदेवलोकाच्युतः, च्युत्वा गर्भे 'व्युत्क्रान्तः' उत्पन्नः१ । हस्तोत्तरायां गर्भाद्गर्भ संहृतः, देवानन्दागर्भात्रिशलागर्भे गर्भाधानत्वेन सङ्कामित इत्यर्थः २। हस्तोत्तरायां जातः, भगवतो जन्म बभूव ३॥ हस्तोत्तरायां द्रव्यतः केशलुचनेन भावतः कषायेन्द्रियमनोनिग्रहेण मुण्डो भूत्वा 'आगारात्' गृहात्, निष्क्रम्येति शेषः, 'अनगारिता' साधुतां प्रव्रजितः' प्रकर्षेण गतः, प्राप्त इत्यर्थः४। हस्तोत्तरायां'अनन्तं' अनन्तार्थx"संवत् १५३८ वर्षे आपाढसुदि १५ सोमे श्रीतपागच्छनायकश्रीपूज्यभ० श्रीविजयरत्नसूरिशिष्येण" इत्युल्लेखान्विताऽस्ति प्रतिः सि० आ० क० सत्के चित्कोथे।
For Private And Personal Use Only