________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्थभत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा ओसेइमं वा संसेइमं वा चाउलोदगं वा [२] । वासावासं पज्जोसविस्स छुट्टत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा-तिलोदगं वा तुसोदगं वा जवोदगं वा [३] । वासावासं पज्जोसविअस्स अट्टमभत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा आयामं वा सोवीरं वा सुद्धवियर्ड वा [४] । वक्ष्यमाणानि नव, पानकानि प्रतिग्रहीतुं [१] । वर्षावासं पर्युषितस्य चतुर्थभक्तिकस्य भिक्षोः कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं तद्यथा - 'उत्स्वेदिमं' पिष्टजलं पिष्टभृतहस्तादिधावनजलं वा, संखेदिमं संसेकिमं वा, यत्पर्णाद्युत्काल्य शीतोदकेन सिच्यते, 'चाउलोदकं' तण्डुलधावनजलं वा [२] । वर्षावासं पर्युषितस्य षष्ठभक्तिकस्य भिक्षोः कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं तद्यथा-'तिलोदकं' महाराष्ट्रादिषु लभ्यं निस्त्वचिततिलधावनजलं, यद्वा 'तुषोदकं' व्रीह्यादितुषधावनजलं, यद्वा 'यवोदकं' यवधावनं वा [ ३ ] । वर्षावासं पर्युषितस्याष्टमभक्तिकस्य भिक्षोः कल्पन्ते त्रीणि पानकानि x प्रतिग्रहीतुं, तद्यथा - अयामं-अवश्रावणं, सौवीरं काञ्जिकं, वियर्ड वा " [ श्रु० २ अ० उ०७] "अंबपाणगं वा अंबाडगपाणगं वा कविट्टपा० माउलिंगपा० मुद्दियापा० दाडिमपा० खजूरपा० नालियरपा० करीरपा० कोलपा० आमलपा० चिंचापा०" [ श्रु० २ अ० उ० ८ ] एतेषूत्स्वेदिमादिकानि नव त्वन्त्र व्याख्यास्यन्त एव, शेषाणामर्थः प्रतीत एव, नवरं "अंबाडगपाणगं" अम्बाडिकायाः क्लेदनजलं, एवं "मुद्दिया" द्राक्षा, कोलानि बदराणि, चिञ्चा-आम्लिका इति ।
x ननु प्रत्याख्यातचतुर्थादिभक्तिकेनैकाशनेन वा भुक्त्वोत्थितानन्तर मप्युत्स्वेदिमादिकानि अशनायाहारमिश्रितानि पानकानि कथं पातव्यानि भवेयुरिति चेत् ?, न, पानकस्य पडागाराणां तत्र गृहीतत्वात् । त्रिविधाहारप्रत्याख्यान एव तेषां ग्रहणार्हत्वमुक्तं शास्त्रकारैः, यदुक्तं - " x x जइ पुणो कुणइ । पोरिसि पुरिमेगासण - अभतट्टे तिविह आहारे ॥ १५० ॥ तो पाणगमुद्दिसिडं, लेवाडेणेव -
For Private And Personal Use Only