________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
मतम् ॥ ३०॥ मातृपितृद्वयं सौख्यं, भुक्त्वाऽगात्स्वर्गमोक्षयोः। श्रीवीरस्य हि कल्याण-मकल्याणं कथं ब्रुवे ? ॥ ३१॥ कल्याणं श्रेय उक्तं हि, श्रेयः कल्याणकं मतम् । मोक्षे वीरवियोगेऽपि *, मोक्षकल्याणक मतम् ॥ ३२॥ जन्मादिषु नयेष्वेव, कल्याणकेषु जायते । भुवनत्रय उड्योतः, सार्वानां पुण्यशालिनाम् [॥ ३३ ॥ निर्वाणे तु तमःस्तोम, लोके खर्गे च जायते । ब्रूते स्थानाङ्गसूत्रं + हि, ततोऽकल्याणकं किमु ? ॥ ३४ ॥ यश्चोक्तः स्थानके तुर्ये, उड्योतो निर्वृतावपि । स हि देवागमाजातो, न तु स्वाभाविको भवेत् ॥ ३५ ॥ ये ब्रुवन्ति भवत्येव, कल्याणपश्चकेष्वपि । देवेन्द्राद्यागमस्तैर्हि, दर्शितव्यं प्रमाणकम् ॥ ३६॥ जन्मादिषु चतुर्वेव, देवानां हि समागमः । प्रज्ञप्तो नियमेनैव, प्रज्ञप्त्यां x स्थानकेऽपि ॥ च ॥३७॥ ___* गर्भापहारे देवानन्दायाः खमा हता अत उरस्ताडितस्तयेति जल्पाकैविमृश्यमिदं, किं न जातो वीरनिर्वाण गौतमखामिनो विषादः । +"तिहिं ठाणेहिं लोगु(देवु)जोते (लोकोयोतो लोकानुभावान्मनुष्यलोके देवागमाद्वा) सिया, तं जहा-अरहंतेहिं जायमाणेहिं, अरहंतेसु पब्वयमाणेसु, अरहंताणं णाणुप्पायमहिमासु" इति स्थान ३, उ०१। + "तिहिं ठाणेहिं लोग(देवं)धयारे सिया, तं जहा-अरिहंतेहिं वोच्छिज्जमाणेहि, अरिहंतपन्नत्ते धम्मे वोच्छिज्जमाणे, पुब्बगते वोच्छिजमाणे" इति स्थान ३, उ०१। "चउहिं ठाणेहिं लोउज्जोते सिता, तं जहा-अरहंतेहिं, जायमाणेहिं, अरहंतेहिं पब्वतमाणेहिं, अरहताणं णाणुप्पायमहिमासु, अरहताणं परिनिब्वाणमहिमासु" इति स्थान ४, उ०३। “कोकोद्योतश्चतुर्वपि स्थानेषु देवागमात् , जन्मादित्रये तु स्वरूपेणापि" इति वृत्तौ ।। x “गोयमा! जे इमे अरिहंता भगवंता, एएसि णं जम्मणमहेसु वा, निक्खमणमहेसु वा, णाणुप्पायमहिमासु वा, परिनिब्वाणमहिमासु वा, एवं खलु असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य" इति भगवत्या १७० पत्रे। "चउहिं ठाणेहिं देविंदा माणुस्सं लोग हब्वमागच्छंति एवं जहा तिठाणे" तथाहि-"एवं सामाणिया तायत्तीसगा लोगपाला देवा अग्गमहिसीओ देवीओ परिसोववन्नगा देवा अणियाहिवईदेवा आयरक्खा देवा माणुसं लोग हब्वमागच्छंति" इति स्थान ४ उ०३।
IXXXXXXXXXXXX
For Private And Personal Use Only